Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 26 / सर्गः २६

Slōka 1 / श्लोक १

तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥।।

Slōka 2 / श्लोक २

यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।
न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥।।

Slōka 3 / श्लोक ३

त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।
प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥।।

Slōka 4 / श्लोक ४

को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।
इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥।।

Slōka 5 / श्लोक ५

आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।
बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥।।

Slōka 6 / श्लोक ६

ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।
पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥।।

Slōka 7 / श्लोक ७

ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।
तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥।।

Slōka 8 / श्लोक ८

आलोक्य रावणो राजा परिपप्रच्च सारणम् ।
एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥।।

Slōka 9 / श्लोक ९

के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।
केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥।।

Slōka 10 / श्लोक १०

सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।
सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥।।

Slōka 11 / श्लोक ११

आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।
एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥।।

Slōka 12 / श्लोक १२

यूथपानाम् सहस्राणाम् शतेन परिवारितः ।
यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥।।

Slōka 13 / श्लोक १३

लंका प्रवेपते सर्वा सशैल वन कानना ।
सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥।।

Slōka 14 / श्लोक १४

बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।
बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥।।

Slōka 15 / श्लोक १५

लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।
गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥।।

Slōka 16 / श्लोक १६

स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।
यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥।।

Slōka 17 / श्लोक १७

एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।
यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥।।

Slōka 18 / श्लोक १८

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥।।

Slōka 19 / श्लोक १९

एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।
हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥।।

Slōka 20 / श्लोक २०

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥।।

Slōka 21 / श्लोक २१

अनुवालिसुतस्यापि बलेन महता वृतः ।
वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥।।

Slōka 22 / श्लोक २२

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥।।

Slōka 23 / श्लोक २३

एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।
अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥।।

Slōka 24 / श्लोक २४

य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।
एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥।।

Slōka 25 / श्लोक २५

श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥।।

Slōka 26 / श्लोक २६

तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।
विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥।।

Slōka 27 / श्लोक २७

यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।
नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥।।

Slōka 28 / श्लोक २८

तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।
यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥।।

Slōka 29 / श्लोक २९

यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥।।

Slōka 30 / श्लोक ३०

अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥।।

Slōka 31 / श्लोक ३१

यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।
निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥।।

Slōka 32 / श्लोक ३२

विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।
राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥।।

Slōka 33 / श्लोक ३३

शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।
यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥।।

Slōka 34 / श्लोक ३४

परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।
यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥।।

Slōka 35 / श्लोक ३५

न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥।।

Slōka 36 / श्लोक ३६

पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।
महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥।।

Slōka 37 / श्लोक ३७

राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥।।

Slōka 38 / श्लोक ३८

राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।
यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥।।

Slōka 39 / श्लोक ३९

मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।
भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥।।

Slōka 40 / श्लोक ४०

घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।
एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥।।

Slōka 41 / श्लोक ४१

युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।
एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥।।

Slōka 42 / श्लोक ४२

यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।
यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥।।

Slōka 43 / श्लोक ४३

स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।
एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥।।

Slōka 44 / श्लोक ४४

पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।
षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥।।

Slōka 45 / श्लोक ४५

त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥।।

Slōka 46 / श्लोक ४६

यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥।।

Slōka 47 / श्लोक ४७

गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।
एनम् शत सहस्राणि सप्ततिः पर्युपासते ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥।।

Slōka 48 / श्लोक ४८

एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।
यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥