उत्तरकाण्डम्डम्
Chapter 47 / सर्गः ४७
Slōka 1 / श्लोक १
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.१ ॥
Slōka 2 / श्लोक २
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।
उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.२ ॥
Slōka 3 / श्लोक ३
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.३ ॥
Slōka 4 / श्लोक ४
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.४ ॥
Slōka 5 / श्लोक ५
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.५ ॥
Slōka 6 / श्लोक ६
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.६ ॥
Slōka 7 / श्लोक ७
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। ७.४७.७ ॥
Slōka 8 / श्लोक ८
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। ७.४७.८ ॥
Slōka 9 / श्लोक ९
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। ७.४७.९ ॥
Slōka 10 / श्लोक १०
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। ७.४७.१० ॥
Slōka 11 / श्लोक ११
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।
पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। ७.४७.११ ॥
Slōka 12 / श्लोक १२
न तानि वचनीयानि मया देवि तवाग्रतः ।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। ७.४७.१२ ॥
Slōka 13 / श्लोक १३
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। ७.४७.१३ ॥
Slōka 14 / श्लोक १४
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। ७.४७.१४ ॥
Slōka 15 / श्लोक १५
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। ७.४७.१५ ॥
Slōka 16 / श्लोक १६
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। ७.४७.१६ ॥
Slōka 17 / श्लोक १७
पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। ७.४७.१७ ॥
Slōka 18 / श्लोक १८
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। ७.४७.१८ ।।