Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 57 / सर्गः ५७

Slōka 1 / श्लोक १

राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् ।
निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत ॥३-५७-१॥

Slōka 2 / श्लोक २

तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् ।
क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः ॥३-५७-२॥

Slōka 3 / श्लोक ३

स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् ।
चिंतयामास गोमायोः स्वरेण परिशन्कितः ॥३-५७-३॥

Slōka 4 / श्लोक ४

अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा ।
स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना ॥३-५७-४॥

Slōka 5 / श्लोक ५

मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् ।
विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि ॥३-५७-५॥

Slōka 6 / श्लोक ६

स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् ।
तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति ॥३-५७-६॥

Slōka 7 / श्लोक ७

राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः ।
कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम् ॥३-५७-७॥

Slōka 8 / श्लोक ८

दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः ।
हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह ॥३-५७-८॥

Slōka 9 / श्लोक ९

अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने ।
जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः ॥३-५७-९॥

Slōka 10 / श्लोक १०

निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च ।
इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम् ॥३-५७-१०॥

Slōka 11 / श्लोक ११

निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् ।
आत्मनः च अपनयनम् मृग रूपेण रक्षसा ॥३-५७-११॥

Slōka 12 / श्लोक १२

आजगाम जनस्थानम् राघवः परिशन्कितः ।
तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः ॥३-५७-१२॥

Slōka 13 / श्लोक १३

सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् ।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः ॥३-५७-१३॥

Slōka 14 / श्लोक १४

ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् ।
ततो अविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥

Slōka 15 / श्लोक १५

विषण्णः स विषण्णेन दुःखितो दुःख भागिना ।
संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम् ॥३-५७-१५॥

Slōka 16 / श्लोक १६

विहाय सीताम् विजने वने राक्षस सेविते ।
गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः ॥३-५७-१६॥

Slōka 17 / श्लोक १७

उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् ।
अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम् ॥३-५७-१७॥

Slōka 18 / श्लोक १८

सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति ।
न मे अस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥

Slōka 19 / श्लोक १९

विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः ।
अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे ॥३-५७-१९॥

Slōka 20 / श्लोक २०

अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे ।
जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै ॥३-५७-२०॥

Slōka 21 / श्लोक २१

यथा वै मृग संघाःअ गोमायुः च भैरवम् ।
वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् ।अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल ॥३-५७-२१॥

Slōka 22 / श्लोक २२

इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् ।
हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव ॥३-५७-२२॥

Slōka 23 / श्लोक २३

मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् ।
असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा ॥३-५७-२३॥