किष्किन्धाकाण्डम्डम्
Chapter 51 / सर्गः ५१
Slōka 1 / श्लोक १
Slōka 1
इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् ।
अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥४-५१-१॥
Slōka 2 / श्लोक २
Slōka 2
इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।
क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥४-५१-२॥
Slōka 3 / श्लोक ३
Slōka 3
महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः ।
इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥४-५१-३॥
Slōka 4 / श्लोक ४
Slōka 4
दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः ।
कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥४-५१-४॥
Slōka 5 / श्लोक ५
Slōka 5
शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।
कांचनानि विमानानि राजतानि गृहाणि च ॥४-५१-५॥
Slōka 6 / श्लोक ६
Slōka 6
तपनीय गव अक्षाणि मणि जाल आवृतानि च ।
पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥४-५१-६॥
Slōka 7 / श्लोक ७
Slōka 7
इमे जांबूनदमयाः पादपाः कस्य तेजसा ।
कांचनानि च पद्मानि जातानि विमले जले ॥४-५१-७॥
Slōka 8 / श्लोक ८
Slōka 8
कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥४-५१-८॥
Slōka 9 / श्लोक ९
Slōka 9
अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि ।
एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥४-५१-९॥
Slōka 10 / श्लोक १०
Slōka 10
प्रति उवाच हनूमंतम् सर्व भूत हिते रता ।
मयो नाम महातेजा मायावी दानवर्षभः ॥४-५१-१०॥
Slōka 11 / श्लोक ११
Slōka 11
तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् ।
पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥४-५१-११॥
Slōka 12 / श्लोक १२
Slōka 12
येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् ।
स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥४-५१-१२॥
Slōka 13 / श्लोक १३
Slōka 13
पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् ।
विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥४-५१-१३॥
Slōka 14 / श्लोक १४
Slōka 14
उवास सुखितः कालम् कंचित् अस्मिन् महावने ।
तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥४-५१-१४॥
Slōka 15 / श्लोक १५
Slōka 15
विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः ।
इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥४-५१-१५॥
Slōka 16 / श्लोक १६
Slōka 16
शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् ।
दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥४-५१-१६॥
Slōka 17 / श्लोक १७
Slōka 17
इदम् रक्षामि भवनम् हेमाया वानरोत्तम ।
मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥४-५१-१७॥
Slōka 18 / श्लोक १८
Slōka 18
तया दत्त वरा च अस्मि रक्षामि भवनम् महान् ।
किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥४-५१-१८॥
Slōka 19 / श्लोक १९
Slōka 19
कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् ।
शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥४-५१-१९॥