Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 115 / सर्गः ११५

Slōka 1 / श्लोक १

ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: ।
भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१॥

Slōka 2 / श्लोक २

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: ।
तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२॥

Slōka 3 / श्लोक ३

गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३॥

Slōka 4 / श्लोक ४

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।
अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४॥

Slōka 5 / श्लोक ५

सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५॥

Slōka 6 / श्लोक ६

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६॥

Slōka 7 / श्लोक ७

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७॥

Slōka 8 / श्लोक ८

प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: ।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८॥

Slōka 9 / श्लोक ९

आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।
ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९॥

Slōka 10 / श्लोक १०

अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: ।
प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१०॥

Slōka 11 / श्लोक ११

बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११॥

Slōka 12 / श्लोक १२

रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२॥

Slōka 13 / श्लोक १३

ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: ।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३॥

Slōka 14 / श्लोक १४

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४॥

Slōka 15 / श्लोक १५

भरत: शिरसा कृत्वा संन्यासं पादुके तत: ।
अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५॥

Slōka 16 / श्लोक १६

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६॥

Slōka 17 / श्लोक १७

भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७॥

Slōka 18 / श्लोक १८

क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८॥

Slōka 19 / श्लोक १९

ततो निक्षिप्तभारो ऽहं राघवेण समागत: ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९॥

Slōka 20 / श्लोक २०

राघवाय च संन्यासं दत्त्वे मे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२०॥

Slōka 21 / श्लोक २१

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१॥

Slōka 22 / श्लोक २२

एवं तु विलपन् दीनो भरत: स महायशा: ।
नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२॥

Slōka 23 / श्लोक २३

स वल्कलजटाधारी मुनिवेषधर: प्रभु: ।
नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३॥

Slōka 24 / श्लोक २४

रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: ।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४॥

Slōka 25 / श्लोक २५

पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।
भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५॥

Slōka 26 / श्लोक २६

ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६॥

Slōka 27 / श्लोक २७

तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥