अयोध्याकाण्डम्
Chapter 118 / सर्गः ११८
Slōka 1 / श्लोक १
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१॥
Slōka 2 / श्लोक २
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२॥
Slōka 3 / श्लोक ३
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३॥
Slōka 4 / श्लोक ४
किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४॥
Slōka 5 / श्लोक ५
यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।
तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५॥
Slōka 6 / श्लोक ६
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६॥
Slōka 7 / श्लोक ७
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७॥
Slōka 8 / श्लोक ८
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८॥
Slōka 9 / श्लोक ९
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९॥
Slōka 10 / श्लोक १०
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१०॥
Slōka 11 / श्लोक ११
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११॥
Slōka 12 / श्लोक १२
एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२॥
Slōka 13 / श्लोक १३
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३॥
Slōka 14 / श्लोक १४
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४॥
Slōka 15 / श्लोक १५
उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५॥
Slōka 16 / श्लोक १६
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६॥
Slōka 17 / श्लोक १७
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७॥
Slōka 18 / श्लोक १८
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८॥
Slōka 19 / श्लोक १९
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९॥
Slōka 20 / श्लोक २०
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२०॥
Slōka 21 / श्लोक २१
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१॥
Slōka 22 / श्लोक २२
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२॥
Slōka 23 / श्लोक २३
तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३॥
Slōka 24 / श्लोक २४
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४॥
Slōka 25 / श्लोक २५
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५॥
Slōka 26 / श्लोक २६
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६॥
Slōka 27 / श्लोक २७
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्ऺत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७॥
Slōka 28 / श्लोक २८
तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८॥
Slōka 29 / श्लोक २९
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९॥
Slōka 30 / श्लोक ३०
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३०॥
Slōka 31 / श्लोक ३१
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१॥
Slōka 32 / श्लोक ३२
तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२॥
Slōka 33 / श्लोक ३३
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३॥
Slōka 34 / श्लोक ३४
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४॥
Slōka 35 / श्लोक ३५
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५॥
Slōka 36 / श्लोक ३६
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।
चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६॥
Slōka 37 / श्लोक ३७
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७॥
Slōka 38 / श्लोक ३८
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८॥
Slōka 39 / श्लोक ३९
महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९॥
Slōka 40 / श्लोक ४०
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४०॥
Slōka 41 / श्लोक ४१
तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१॥
Slōka 42 / श्लोक ४२
इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।
तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२॥
Slōka 43 / श्लोक ४३
तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३॥
Slōka 44 / श्लोक ४४
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४॥
Slōka 45 / श्लोक ४५
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५॥
Slōka 46 / श्लोक ४६
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६॥
Slōka 47 / श्लोक ४७
इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७॥
Slōka 48 / श्लोक ४८
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८॥
Slōka 49 / श्लोक ४९
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।
तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९॥
Slōka 50 / श्लोक ५०
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५०॥
Slōka 51 / श्लोक ५१
दीयमानां न तु तदा प्रतिजग्राह राघव: ।
अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१॥
Slōka 52 / श्लोक ५२
तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२॥
Slōka 53 / श्लोक ५३
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३॥
Slōka 54 / श्लोक ५४
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥