किष्किन्धाकाण्डम्डम्
Chapter 3 / सर्गः ३
Slōka 1 / श्लोक १
Slōka 1
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।
पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥४-३-१॥
Slōka 2 / श्लोक २
Slōka 2
कपि रूपम् परित्यज्य हनुमान् मारुतात्मजः ।
भिक्षु रूपम् ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥
Slōka 3 / श्लोक ३
Slōka 3
ततः च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया ।
विनीतवत् उपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥
Slōka 4 / श्लोक ४
Slōka 4
अबभाषे च तौ वीरौ यथावत् प्रशशंस च ।
संपूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥४-३-४॥
Slōka 5 / श्लोक ५
Slōka 5
उवाच कामतो वाक्यम् मृदु सत्य पराक्रमौ ।
राजर्षि देव प्रतिमौ तापसौ संशित व्रतौ ॥४-३-५॥
Slōka 6 / श्लोक ६
Slōka 6
देशम् कथम् इमम् प्राप्तौ भवन्तौ वर वर्णिनौ ।
त्रासयन्तौ मृग गणान् अन्याम् च वन चारिणः ॥४-३-६॥
Slōka 7 / श्लोक ७
Slōka 7
पम्पा तीर रुहान् वृक्षान् वीक्षमाणौ समंततः ।
इमाम् नदीम् शुभ जलाम् शोभयन्तौ तरस्विनौ ॥४-३-७॥
Slōka 8 / श्लोक ८
Slōka 8
धैर्यवन्तौ सुवर्णाभौ कौ युवाम् चीर वाससौ ।
निःश्वसन्तौ वर भुजौ पीडयन्तौ इमाः प्रजाः ॥४-३-८॥
Slōka 9 / श्लोक ९
Slōka 9
सिंह विप्रेक्षितौ वीरौ महाबल पराक्रमौ ।
शक्र चाप निभे चापे गृहीत्वा शत्रु नाशनौ ॥४-३-९॥
Slōka 10 / श्लोक १०
Slōka 10
श्रीमन्तौ रूप संपन्नौ वृषभ श्रेष्ठ विक्रमौ ।
हस्ति हस्त उपम भुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥
Slōka 11 / श्लोक ११
Slōka 11
प्रभया पर्वत इन्द्रः असौ युवयोः अवभासितः ।
राज्य अर्हौ अमर प्रख्यौ कथम् देशम् इह आगतौ ॥४-३-११॥
Slōka 12 / श्लोक १२
Slōka 12
पद्म पत्र ईक्षणौ वीरौ जटा मण्डल धारिणौ ।
अन्योन्य सदृशौ वीरौ देव लोकात् इह आगतौ ॥४-३-१२॥
Slōka 13 / श्लोक १३
Slōka 13
यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुंधराम् ।
विशाल वक्षसौ वीरौ मानुषौ देव रूपिणौ ॥४-३-१३॥
Slōka 14 / श्लोक १४
Slōka 14
सिंह स्कन्धौ महा उत्साहौ समदौ इव गोवृषौ ।
आयताः च सुवृत्ताः च बाहवः परिघोपमाः ॥४-३-१४॥
Slōka 15 / श्लोक १५
Slōka 15
सर्व भूषण भूषार्हाः किम् अर्थम् न विभूषिताः ।
उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम् ॥४-३-१५॥
Slōka 16 / श्लोक १६
Slōka 16
स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् ।
इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥४-३-१६॥
Slōka 17 / श्लोक १७
Slōka 17
प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते ।
संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥४-३-१७॥
Slōka 18 / श्लोक १८
Slōka 18
जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः ।
महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥४-३-१८॥
Slōka 19 / श्लोक १९
Slōka 19
खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव ।
एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥४-३-१९॥
Slōka 20 / श्लोक २०
Slōka 20
सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः ।
वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥४-३-२०॥
Slōka 21 / श्लोक २१
Slōka 21
प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना ।
राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥४-३-२१॥
Slōka 22 / श्लोक २२
Slōka 22
युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति ।
तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥४-३-२२॥
Slōka 23 / श्लोक २३
Slōka 23
भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् ।
ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥४-३-२३॥
Slōka 24 / श्लोक २४
Slōka 24
एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ ।
वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥४-३-२४॥
Slōka 25 / श्लोक २५
Slōka 25
एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् ।
प्रहृष्ट वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम् ॥४-३-२५॥
Slōka 26 / श्लोक २६
Slōka 26
सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः ।
तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥४-३-२६॥
Slōka 27 / श्लोक २७
Slōka 27
तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् ।
वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥४-३-२७॥
Slōka 28 / श्लोक २८
Slōka 28
न अन् ऋग्वेद विनीतस्य न अ\-\-यजुर्वेद धारिणः ।
न अ\-\-साम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥४-३-२८॥
Slōka 29 / श्लोक २९
Slōka 29
नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् ।
बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥४-३-२९॥
Slōka 30 / श्लोक ३०
Slōka 30
न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा ।
अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥
Slōka 31 / श्लोक ३१
Slōka 31
अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् ।
उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥४-३-३१॥
Slōka 32 / श्लोक ३२
Slōka 32
संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् ।
उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥४-३-३२॥
Slōka 33 / श्लोक ३३
Slōka 33
अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः ।
कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥४-३-३३॥
Slōka 34 / श्लोक ३४
Slōka 34
एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।
सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥४-३-३४॥
Slōka 35 / श्लोक ३५
Slōka 35
एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः ।
तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥४-३-३५॥
Slōka 36 / श्लोक ३६
Slōka 36
एवम् उक्तः तु सोउमित्रिः सुग्रीव सचिवम् कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥४-३-३६॥
Slōka 37 / श्लोक ३७
Slōka 37
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।
तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥४-३-३७॥
Slōka 38 / श्लोक ३८
Slōka 38
यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह ।
तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥४-३-३८॥
Slōka 39 / श्लोक ३९
Slōka 39
तत् तस्य वाक्यम् निपुणम् निशम्यप्रहृष्ट रूपः पवनात्मजः कपिः ।
मनः समाधाय जय उपपत्तौसख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥४-३-३९॥