Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 57 / सर्गः ५७

Slōka 1 / श्लोक १

तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। ७.५७.१ ॥

Slōka 2 / श्लोक २

निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। ७.५७.२ ॥

Slōka 3 / श्लोक ३

तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
तां कथां कथयामास वसिष्ठस्य महात्मनः ।। ७.५७.३ ॥

Slōka 4 / श्लोक ४

यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। ७.५७.४ ॥

Slōka 5 / श्लोक ५

पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। ७.५७.५ ॥

Slōka 6 / श्लोक ६

तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। ७.५७.६ ॥

Slōka 7 / श्लोक ७

कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। ७.५७.७ ॥

Slōka 8 / श्लोक ८

तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। ७.५७.८ ॥

Slōka 9 / श्लोक ९

एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।
कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। ७.५७.९ ॥

Slōka 10 / श्लोक १०

दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। ७.५७.१० ॥

Slōka 11 / श्लोक ११

तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। ७.५७.११ ॥

Slōka 12 / श्लोक १२

ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। ७.५७.१२ ॥

Slōka 13 / श्लोक १३

सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। ७.५७.१३ ॥

Slōka 14 / श्लोक १४

एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। ७.५७.१४ ॥

Slōka 15 / श्लोक १५

बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। ७.५७.१५ ॥

Slōka 16 / श्लोक १६

त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। ७.५७.१६ ॥

Slōka 17 / श्लोक १७

एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।
ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। ७.५७.१७ ॥

Slōka 18 / श्लोक १८

अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। ७.५७.१८ ॥

Slōka 19 / श्लोक १९

अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।
मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।। ७.५७.१९ ॥

Slōka 20 / श्लोक २०

एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।
मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। ७.५७.२० ।।