उत्तरकाण्डम्डम्
Chapter 76 / सर्गः ७६
Slōka 1 / श्लोक १
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।
अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.१ ॥
Slōka 2 / श्लोक २
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।
देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.२ ॥
Slōka 3 / श्लोक ३
न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.३ ॥
Slōka 4 / श्लोक ४
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.४ ॥
Slōka 5 / श्लोक ५
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।
साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.५ ॥
Slōka 6 / श्लोक ६
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.६ ॥
Slōka 7 / श्लोक ७
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.७ ॥
Slōka 8 / श्लोक ८
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.८ ॥
Slōka 9 / श्लोक ९
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.९ ॥
Slōka 10 / श्लोक १०
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.१० ॥
Slōka 11 / श्लोक ११
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.११ ॥
Slōka 12 / श्लोक १२
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.१२ ॥
Slōka 13 / श्लोक १३
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.१३ ॥
Slōka 14 / श्लोक १४
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.१४ ॥
Slōka 15 / श्लोक १५
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।
तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.१५ ॥
Slōka 16 / श्लोक १६
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.१६ ॥
Slōka 17 / श्लोक १७
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.१७ ॥
Slōka 18 / श्लोक १८
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.१८ ॥
Slōka 19 / श्लोक १९
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.१९ ॥
Slōka 20 / श्लोक २०
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.२० ॥
Slōka 21 / श्लोक २१
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.२१ ॥
Slōka 22 / श्लोक २२
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.२२ ॥
Slōka 23 / श्लोक २३
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.२३ ॥
Slōka 24 / श्लोक २४
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.२४ ॥
Slōka 25 / श्लोक २५
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.२५ ॥
Slōka 26 / श्लोक २६
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.२६ ॥
Slōka 27 / श्लोक २७
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.२७ ॥
Slōka 28 / श्लोक २८
उष्यतां चेह रजनी सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.२८ ॥
Slōka 29 / श्लोक २९
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.२९ ॥
Slōka 30 / श्लोक ३०
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। ७.७६.३० ॥
Slōka 31 / श्लोक ३१
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।
भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। ७.७६.३१ ॥
Slōka 32 / श्लोक ३२
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। ७.७६.३२ ॥
Slōka 33 / श्लोक ३३
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।
। ७.७६.३३ ॥
Slōka 34 / श्लोक ३४
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। ७.७६.३४ ॥
Slōka 35 / श्लोक ३५
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।
गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। ७.७६.३५ ॥
Slōka 36 / श्लोक ३६
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। ७.७६.३६ ॥
Slōka 37 / श्लोक ३७
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। ७.७६.३७ ॥
Slōka 38 / श्लोक ३८
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ७.७६.३८ ॥
Slōka 39 / श्लोक ३९
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।न वसामो विना राज्ञा एष नो निश्चयः परः ।। ७.७६.३९ ॥
Slōka 40 / श्लोक ४०
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।
। ७.७६.४० ॥
Slōka 41 / श्लोक ४१
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।
समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। ७.७६.४१ ॥
Slōka 42 / श्लोक ४२
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। ७.७६.४२ ॥
Slōka 43 / श्लोक ४३
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। ७.७६.४३ ॥
Slōka 44 / श्लोक ४४
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। ७.७६.४४ ॥
Slōka 45 / श्लोक ४५
कौबेरेण तु भागेन वित्तमासां ददौ तदा ।
यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। ७.७६.४५ ॥
Slōka 46 / श्लोक ४६
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। ७.७६.४६ ॥
Slōka 47 / श्लोक ४७
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।
तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। ७.७६.४७ ॥
Slōka 48 / श्लोक ४८
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। ७.७६.४८ ॥
Slōka 49 / श्लोक ४९
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।
कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। ७.७६.४९ ॥
Slōka 50 / श्लोक ५०
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।
आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। ७.७६.५० ॥
Slōka 51 / श्लोक ५१
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। ७.७६.५१ ॥
Slōka 52 / श्लोक ५२
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।
आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। ७.७६.५२ ।।