किष्किन्धाकाण्डम्डम्
Chapter 20 / सर्गः २०
Slōka 1 / श्लोक १
Slōka 1
राम चाप विसृष्टेन शरेण अंतकरेण तम् ।
दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥४-२०-१॥
Slōka 2 / श्लोक २
Slōka 2
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।
इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥४-२०-२॥
Slōka 3 / श्लोक ३
Slōka 3
वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।
तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥४-२०-३॥
Slōka 4 / श्लोक ४
Slōka 4
रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।
किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४-२०-४॥
Slōka 5 / श्लोक ५
Slōka 5
उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।
न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥४-२०-५॥
Slōka 6 / श्लोक ६
Slōka 6
अतीव खलु ते कांता वसुधा वसुधाधिप ।
गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥४-२०-६॥
Slōka 7 / श्लोक ७
Slōka 7
व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।
किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥४-२०-७॥
Slōka 8 / श्लोक ८
Slōka 8
यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।
विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥४-२०-८॥
Slōka 9 / श्लोक ९
Slōka 9
निरानंदा निराशा अहम् निमग्ना शोक सागरे ।
त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥४-२०-९॥
Slōka 10 / श्लोक १०
Slōka 10
हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।
यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥४-२०-१०॥
Slōka 11 / श्लोक ११
Slōka 11
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।
यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥४-२०-११॥
Slōka 12 / श्लोक १२
Slōka 12
निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।
या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥४-२०-१२॥
Slōka 13 / श्लोक १३
Slōka 13
रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।
नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥
Slōka 14 / श्लोक १४
Slōka 14
कालो निःसंशयो नूनम् जीवित अंतकरः तव ।
बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥४-२०-१४॥
Slōka 15 / श्लोक १५
Slōka 15
अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।
न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥४-२०-१५॥
Slōka 16 / श्लोक १६
Slōka 16
वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।
अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥४-२०-१६॥
Slōka 17 / श्लोक १७
Slōka 17
लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।
वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥४-२०-१७॥
Slōka 18 / श्लोक १८
Slōka 18
कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।
दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥४-२०-१८॥
Slōka 19 / श्लोक १९
Slōka 19
समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।
मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥४-२०-१९॥
Slōka 20 / श्लोक २०
Slōka 20
रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।
आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥
Slōka 21 / श्लोक २१
Slōka 21
सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।
भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥४-२०-२१॥
Slōka 22 / श्लोक २२
Slōka 22
किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।
इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥४-२०-२२॥
Slōka 23 / श्लोक २३
Slōka 23
तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।
परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥४-२०-२३॥
Slōka 24 / श्लोक २४
Slōka 24
किम् अंगदम् स अंगद वीर बाहोविहाय यातो असि अद्य चिरम् प्रवासम् ।
न युक्तम् एवम् गुण संनिकृष्टम्विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥४-२०-२४॥
Slōka 25 / श्लोक २५
Slōka 25
यदि अप्रियम् किंचिद् असंप्रधार्यकृतम् मया स्यात् तव दीर्घ बाहो ।
क्षमस्व मे तत् हरि वम्श नाथव्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥
Slōka 26 / श्लोक २६
Slōka 26
तथा तु तारा करुणम् रुदंतीभर्तुः समीपे सह वानरीभिः ।
व्यवस्यत प्रायम् अनिन्द्य वर्णाउपोपवेष्टुम् भुवि यत्र वाली ॥४-२०-२६॥