युद्धकाण्डम्
Chapter 1 / सर्गः १
Slōka 1 / श्लोक १
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥।।
Slōka 2 / श्लोक २
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥।।
Slōka 3 / श्लोक ३
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥।।
Slōka 4 / श्लोक ४
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥।।
Slōka 5 / श्लोक ५
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।
को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥।।
Slōka 6 / श्लोक ६
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।
भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥।।
Slōka 7 / श्लोक ७
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥।।
Slōka 8 / श्लोक ८
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।
यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥।।
Slōka 9 / श्लोक ९
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।
नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥।।
Slōka 10 / श्लोक १०
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।
तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥।।
Slōka 11 / श्लोक ११
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।
अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥।।
Slōka 12 / श्लोक १२
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।
इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥।।
Slōka 13 / श्लोक १३
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।
एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥।।
Slōka 14 / श्लोक १४
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥।।
Slōka 15 / श्लोक १५
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।
ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥।।
Slōka 16 / श्लोक १६
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।
सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥।।
Slōka 17 / श्लोक १७
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।
कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥।।
Slōka 18 / श्लोक १८
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥।।
Slōka 19 / श्लोक १९
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।
इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥