अरण्यकाण्डम्
Chapter 8 / सर्गः ८
Slōka 1 / श्लोक १
रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः ।
परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥३-८-१॥
Slōka 2 / श्लोक २
उत्थाय च यथा कालम् राघवः सह सीतया ।
उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥३-८-२॥
Slōka 3 / श्लोक ३
अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ ।
काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३-८-३॥
Slōka 4 / श्लोक ४
उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः ।
सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥३-८-४॥
Slōka 5 / श्लोक ५
सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः ।
आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥३-८-५॥
Slōka 6 / श्लोक ६
त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् ।
ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥३-८-६॥
Slōka 7 / श्लोक ७
अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः ।
धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥३-८-७॥
Slōka 8 / श्लोक ८
अविषह्य आतपो यावत् सूर्यो न अति विराजते ।
अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥३-८-८॥
Slōka 9 / श्लोक ९
तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः ।
ववन्दे सह सौमित्रिः सीतया सह राघवः ॥३-८-९॥
Slōka 10 / श्लोक १०
तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः ।
गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥३-८-१०॥
Slōka 11 / श्लोक ११
अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह ।
सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥३-८-११॥
Slōka 12 / श्लोक १२
पश्य आश्रम पदम् रम्यम् दण्डकारण्य वासिनाम् ।
एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥३-८-१२॥
Slōka 13 / श्लोक १३
सुप्राज्य फल मूलानि पुष्पितानि वनानि च ।
प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥३-८-१३॥
Slōka 14 / श्लोक १४
फुल्ल पंकज खण्डानि प्रसन्न सलिलानि च ।
कारण्डव विकीर्णानि तटाकानि सरांसि च ॥३-८-१४॥
Slōka 15 / श्लोक १५
द्रक्ष्यसे दृष्टि रम्याणि गिरि प्रस्रवणानि च ।
रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥३-८-१५॥
Slōka 16 / श्लोक १६
गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु ।
आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥३-८-१६॥
Slōka 17 / श्लोक १७
एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः ।
प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥३-८-१७॥
Slōka 18 / श्लोक १८
ततः शुभतरे तूणी धनुषी च आयतेक्षणा ।
ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥३-८-१८॥
Slōka 19 / श्लोक १९
आबध्य च शुभे तूणी चापे च आदाय सस्वने ।
निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥३-८-१९॥
Slōka 20 / श्लोक २०
शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा ।
प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥३-८-२०॥