उत्तरकाण्डम्डम्
Chapter 21 / सर्गः २१
Slōka 1 / श्लोक १
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.१ ॥
Slōka 2 / श्लोक २
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.२ ॥
Slōka 3 / श्लोक ३
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.३ ॥
Slōka 4 / श्लोक ४
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।
किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.४ ॥
Slōka 5 / श्लोक ५
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।
श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.५ ॥
Slōka 6 / श्लोक ६
एष नाम्नो दशग्रीवः पितृराज निशाचरः ।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.६ ॥
Slōka 7 / श्लोक ७
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।
दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.७ ॥
Slōka 8 / श्लोक ८
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।
ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.८ ॥
Slōka 9 / श्लोक ९
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।
कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.९ ॥
Slōka 10 / श्लोक १०
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। ७.२१.१० ॥
Slōka 11 / श्लोक ११
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।
यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। ७.२१.११ ॥
Slōka 12 / श्लोक १२
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।
क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। ७.२१.१२ ॥
Slōka 13 / श्लोक १३
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।
। ७.२१.१३ ॥
Slōka 14 / श्लोक १४
क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।
सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। ७.२१.१४ ॥
Slōka 15 / श्लोक १५
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।
असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। ७.२१.१५ ॥
Slōka 16 / श्लोक १६
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।
पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। ७.२१.१६ ॥
Slōka 17 / श्लोक १७
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।
मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। ७.२१.१७ ॥
Slōka 18 / श्लोक १८
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः ।
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ।। ७.२१.१८ ॥
Slōka 19 / श्लोक १९
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।
गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। ७.२१.१९ ॥
Slōka 20 / श्लोक २०
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।
। ७.२१.२० ॥
Slōka 21 / श्लोक २१
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।
ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। ७.२१.२१ ॥
Slōka 22 / श्लोक २२
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।
रावणो मोचयामास विक्रमेण बलाद्बली ।। ७.२१.२२ ॥
Slōka 23 / श्लोक २३
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। ७.२१.२३ ॥
Slōka 24 / श्लोक २४
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।
प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। ७.२१.२४ ॥
Slōka 25 / श्लोक २५
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।
धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। ७.२१.२५ ॥
Slōka 26 / श्लोक २६
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।
पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। ७.२१.२६ ॥
Slōka 27 / श्लोक २७
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। ७.२१.२७ ॥
Slōka 28 / श्लोक २८
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। ७.२१.२८ ॥
Slōka 29 / श्लोक २९
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।
शूराणामग्रयातऽणां सहस्राणि शतानि च ।। ७.२१.२९ ॥
Slōka 30 / श्लोक ३०
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।
ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।अयुध्यन्त महावीराः स च राजा दशाननः ।। ७.२१.३० ॥
Slōka 31 / श्लोक ३१
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। ७.२१.३१ ॥
Slōka 32 / श्लोक ३२
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।
यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। ७.२१.३२ ॥
Slōka 33 / श्लोक ३३
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।
तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। ७.२१.३३ ॥
Slōka 34 / श्लोक ३४
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।
फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ७.२१.३४ ॥
Slōka 35 / श्लोक ३५
स तु शूलगदापासाञ्छक्तितोमरसायकान् ।
मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। ७.२१.३५ ॥
Slōka 36 / श्लोक ३६
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।
यमसैन्येषु तद्वर्षं पपात धरणीतले ।। ७.२१.३६ ॥
Slōka 37 / श्लोक ३७
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। ७.२१.३७ ॥
Slōka 38 / श्लोक ३८
परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। ७.२१.३८ ॥
Slōka 39 / श्लोक ३९
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।
ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। ७.२१.३९ ॥
Slōka 40 / श्लोक ४०
ततः स कार्मुकी वाणी समरे चाभिवर्तत ।
लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। ७.२१.४० ॥
Slōka 41 / श्लोक ४१
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। ७.२१.४१ ॥
Slōka 42 / श्लोक ४२
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।
मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। ७.२१.४२ ॥
Slōka 43 / श्लोक ४३
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।
वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। ७.२१.४३ ॥
Slōka 44 / श्लोक ४४
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।
मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। ७.२१.४४ ॥
Slōka 45 / श्लोक ४५
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।
रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। ७.२१.४५ ॥
Slōka 46 / श्लोक ४६
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।
ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ७.२१.४६ ।।