Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 25 / सर्गः २५

Slōka 1 / श्लोक १

तथा तासां वदन्तीनां परुषं दारुणं बहु ।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२५.१।।।।

Slōka 2 / श्लोक २

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२५.२।।।।

Slōka 3 / श्लोक ३

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२५.३।।।।

Slōka 4 / श्लोक ४

सा राक्षसीमध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२५.४।।।।

Slōka 5 / श्लोक ५

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५.२५.५।।।।

Slōka 6 / श्लोक ६

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२५.६।।।।

Slōka 7 / श्लोक ७

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ।। ५.२५.७।।।।

Slōka 8 / श्लोक ८

सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ।। ५.२५.८।।।।

Slōka 9 / श्लोक ९

तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२५.९।।।।

Slōka 10 / श्लोक १०

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२५.१०।।।।

Slōka 11 / श्लोक ११

रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। ५.२५.११।।।।

Slōka 12 / श्लोक १२

लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२५.१२।।।।

Slōka 13 / श्लोक १३

यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२५.१३।।।।

Slōka 14 / श्लोक १४

एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ।। ५.२५.१४।।।।

Slōka 15 / श्लोक १५

भर्तारं तमपश्यन्ती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२५.१५।।।।

Slōka 16 / श्लोक १६

तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् ।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२५.१६।।।।

Slōka 17 / श्लोक १७

सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२५.१७।।।।

Slōka 18 / श्लोक १८

कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२५.१८।।।।

Slōka 19 / श्लोक १९

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ।। ५.२५.१९।।।।

Slōka 20 / श्लोक २०

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२५.२०।।