उत्तरकाण्डम्डम्
Chapter 100 / सर्गः १००
Slōka 1 / श्लोक १
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ।गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। ७.१००.१ ॥
Slōka 2 / श्लोक २
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।
। ७.१००.२ ॥
Slōka 3 / श्लोक ३
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।
रामाय प्रददौ राजा शुभान्याभरणानि च ।। ७.१००.३ ॥
Slōka 4 / श्लोक ४
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।
मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। ७.१००.४ ॥
Slōka 5 / श्लोक ५
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।
गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। ७.१००.५ ॥
Slōka 6 / श्लोक ६
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। ७.१००.६ ॥
Slōka 7 / श्लोक ७
किमाह मातुलो वाक्यं यदर्थं भगवानिह ।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। ७.१००.७ ॥
Slōka 8 / श्लोक ८
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। ७.१००.८ ॥
Slōka 9 / श्लोक ९
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। ७.१००.९ ॥
Slōka 10 / श्लोक १०
अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। ७.१००.१० ॥
Slōka 11 / श्लोक ११
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। ७.१००.११ ॥
Slōka 12 / श्लोक १२
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।
निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। ७.१००.१२ ॥
Slōka 13 / श्लोक १३
अन्यस्य न गतिस्तत्र देशः परमशोभनः ।
रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। ७.१००.१३ ॥
Slōka 14 / श्लोक १४
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येव भरतं चान्ववैक्षत ।। ७.१००.१४ ॥
Slōka 15 / श्लोक १५
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। ७.१००.१५ ॥
Slōka 16 / श्लोक १६
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। ७.१००.१६ ॥
Slōka 17 / श्लोक १७
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। ७.१००.१७ ॥
Slōka 18 / श्लोक १८
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। ७.१००.१८ ॥
Slōka 19 / श्लोक १९
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। ७.१००.१९ ॥
Slōka 20 / श्लोक २०
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। ७.१००.२० ॥
Slōka 21 / श्लोक २१
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।
राघवानुगता दूरं दुराधर्षा सुरैरपि ।। ७.१००.२१ ॥
Slōka 22 / श्लोक २२
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। ७.१००.२२ ॥
Slōka 23 / श्लोक २३
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। ७.१००.२३ ॥
Slōka 24 / श्लोक २४
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। ७.१००.२४ ॥
Slōka 25 / श्लोक २५
अध्यर्धमासमुषिता पथि सेना निरामया ।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। ७.१००.२५ ।।