Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 41 / सर्गः ४१

Slōka 1 / श्लोक १

स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।
तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। ५.४१.१।।।।

Slōka 2 / श्लोक २

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। ५.४१.२।।।।

Slōka 3 / श्लोक ३

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।
न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। ५.४१.३।।।।

Slōka 4 / श्लोक ४

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।
हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। ५.४१.४।।।।

Slōka 5 / श्लोक ५

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। ५.४१.५।।।।

Slōka 6 / श्लोक ६

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। ५.४१.६।।।।

Slōka 7 / श्लोक ७

इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।
परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। ५.४१.७।।।।

Slōka 8 / श्लोक ८

कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।
तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। ५.४१.८।।।।

Slōka 9 / श्लोक ९

ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। ५.४१.९।।।।

Slōka 10 / श्लोक १०

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। ५.४१.१०।।।।

Slōka 11 / श्लोक ११

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।
अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। ५.४१.११।।।।

Slōka 12 / श्लोक १२

ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।
त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। ५.४१.१२।।।।

Slōka 13 / श्लोक १३

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।
निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। ५.४१.१३।।।।

Slōka 14 / श्लोक १४

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।
उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। ५.४१.१४।।।।

Slōka 15 / श्लोक १५

ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। ५.४१.१५।।।।

Slōka 16 / श्लोक १६

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। ५.४१.१६।।।।

Slōka 17 / श्लोक १७

नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।
ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।न बभौ तद्वनं तत्र दावानलहतं यथा ।। ५.४१.१७।।।।

Slōka 18 / श्लोक १८

व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।
। ५.४१.१८।। किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।।।

Slōka 19 / श्लोक १९

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।
शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। ५.४१.१९।।।।

Slōka 20 / श्लोक २०

सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। ५.४१.२०।।।।

Slōka 21 / श्लोक २१

स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।
युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। ५.४१.२१।।