बालकाण्डम्
Chapter 49 / सर्गः ४९
Slōka 1 / श्लोक १
अफलः तु ततः शक्रो देवान् अग्नि पुरोगमान् ।
अब्रवीत् त्रस्त नयनः सिद्ध गन्धव चारणान् ॥१-४९-१॥
Slōka 2 / श्लोक २
कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः ।
क्रोधम् उत्पाद्य हि मया सुर कार्यम् इदम् कृतम् ॥१-४९-२॥
Slōka 3 / श्लोक ३
अफलो अस्मि कृतः तेन क्रोधात् सा च निराकृता ।
शाप मोक्षेण महता तपो अस्य अपहृतम् मया ॥१-४९-३॥
Slōka 4 / श्लोक ४
तत् माम् सुरवराः सर्वे स ऋषि संघाः स चारणाः ।
सुर कार्य करम् यूयम् सफलम् कर्तुम् अर्हथ ॥१-४९-४॥
Slōka 5 / श्लोक ५
शतक्रतोः वचः श्रुत्वा देवाः स अग्नि पुरोगमाः ।
पितृ देवान् उपेत्य आहुः सह सर्वैः मरुत् गणैः ॥१-४९-५॥
Slōka 6 / श्लोक ६
अयम् मेषः सवृषणः शक्रो हि अवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत ॥१-४९-६॥
Slōka 7 / श्लोक ७
अफलः तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति ।
भवताम् हर्षणार्थाय ये च दास्यन्ति मानवाः ।अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् ॥१-४९-७॥
Slōka 8 / श्लोक ८
अग्नेः तु वचनम् श्रुत्वा पितृ देवाः समागताः ।
उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥१-४९-८॥
Slōka 9 / श्लोक ९
तदा प्रभृति काकुत्स्थ पितृ देवाः समागताः ।
अफलान् भुंजते मेषान् फलैः तेषाम् अयोजयन् ॥१-४९-९॥
Slōka 10 / श्लोक १०
इन्द्रः तु मेष वृषणः तदा प्रभृति राघव ।
गौतमस्य प्रभावेन तपसा च महात्मनः ॥१-४९-१०॥
Slōka 11 / श्लोक ११
तत् आगच्छ महातेज आश्रमम् पुण्य कर्मणः ।
तारय एनाम् महाभागाम् अहल्याम् देव रूपिणीम् ॥१-४९-११॥
Slōka 12 / श्लोक १२
विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।
विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह ॥१-४९-१२॥
Slōka 13 / श्लोक १३
ददर्श च महाभागाम् तपसा द्योतित प्रभाम् ।
लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर असुरैः ॥१-४९-१३॥
Slōka 14 / श्लोक १४
प्रयत्नात् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव ।
धूमेन अभिपरीत अंगीम् दीप्ताअम् अग्नि सिखाम् इव ॥१-४९-१४॥
Slōka 15 / श्लोक १५
स तुषार आवृताम् स अभ्राम् पूर्ण चन्द्र प्रभाम् इव ।
मध्ये अंभसो दुराधर्षाम् दीप्ताम् सूर्य प्रभाम् इव ॥१-४९-१५॥
Slōka 16 / श्लोक १६
सस् हि गौतम वाक्येन दुर्निरीक्ष्या बभूव ह ।
त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम् ॥१-४९-१६॥
Slōka 17 / श्लोक १७
शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता।
राघवौ तु ततः तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥
Slōka 18 / श्लोक १८
स्मरंती गौतम वचः प्रतिजग्राह सा च तौ।
पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सुसमाहिता ।प्रतिजग्राह काकुत्स्थो विधि दृष्टेन कर्मणा ॥१-४९-१८॥
Slōka 19 / श्लोक १९
पुष्प वृष्टिः महती आसीत् देव दुंदुभि निस्वनैः ।
गन्धर्व अप्सरसाम् च एव महान् आसीत् समुत्सवः ॥१-४९-१९॥
Slōka 20 / श्लोक २०
साधु साधु इति देवाः ताम् अहल्याम् समपूजयन् ।
तपो बल विशुद्ध अंगीम् गौतमस्य वश अनुगाम् ॥१-४९-२०॥
Slōka 21 / श्लोक २१
गौतमो अपि महातेजा अहल्या सहितः सुखी ।
रामम् सम्पूज्य विधिवत् तपः तेपे महातपाः ॥१-४९-२१॥
Slōka 22 / श्लोक २२
रामो अपि परमाम् पूजाम् गौतमस्य महामुनेः ।
सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततः ॥१-४९-२२॥