सुन्दरकाण्डम्
Chapter 59 / सर्गः ५९
Slōka 1 / श्लोक १
एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। ५.५९.१ ।।।।
Slōka 2 / श्लोक २
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ।। ५.५९.२ ।।।।
Slōka 3 / श्लोक ३
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।
सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।। ५.५९.३ ।।।।
Slōka 4 / श्लोक ४
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।
जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।। ५.५९.४ ।।।।
Slōka 5 / श्लोक ५
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।। ५.५९.५ ।।।।
Slōka 6 / श्लोक ६
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।
। ५.५९.६ ।।।।
Slōka 7 / श्लोक ७
अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।
तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।। ५.५९.७ ।।।।
Slōka 8 / श्लोक ८
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।। ५.५९.८ ।।।।
Slōka 9 / श्लोक ९
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।। ५.५९.९ ।।।।
Slōka 10 / श्लोक १०
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।
यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।। ५.५९.१० ।।।।
Slōka 11 / श्लोक ११
तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।। ५.५९.११ ।।।।
Slōka 12 / श्लोक १२
मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।
देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।। ५.५९.१२ ।।।।
Slōka 13 / श्लोक १३
सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ।। ५.५९.१३ ।।।।
Slōka 14 / श्लोक १४
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ।। ५.५९.१४ ।।।।
Slōka 15 / श्लोक १५
पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।। ५.५९.१५ ।।।।
Slōka 16 / श्लोक १६
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। ५.५९.१६ ।।।।
Slōka 17 / श्लोक १७
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।। ५.५९.१७ ।।।।
Slōka 18 / श्लोक १८
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।। ५.५९.१८ ।।।।
Slōka 19 / श्लोक १९
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।। ५.५९.१९ ।।।।
Slōka 20 / श्लोक २०
करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।। ५.५९.२० ।।।।
Slōka 21 / श्लोक २१
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।। ५.५९.२१ ।।।।
Slōka 22 / श्लोक २२
मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।। ५.५९.२२ ।।।।
Slōka 23 / श्लोक २३
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.५९.२३ ।।।।
Slōka 24 / श्लोक २४
अहं कोसलराजस्य दासः पवनसम्भवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ।। ५.५९.२४ ।।।।
Slōka 25 / श्लोक २५
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।। ५.५९.२५ ।।।।
Slōka 26 / श्लोक २६
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।। ५.५९.२६ ।।।।
Slōka 27 / श्लोक २७
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ।
। ५.५९.२७ ।।
Slōka 28 / श्लोक २८
वृता चन्द्रलेखेव निष्प्रभा ।
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।। ५.५९.२८ ।।।।
Slōka 29 / श्लोक २९
तदेकवासः संवीता रजोध्वस्ता तथैव च ।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।। ५.५९.२९ ।।।।
Slōka 30 / श्लोक ३०
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।। ५.५९.३० ।।।।
Slōka 31 / श्लोक ३१
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।। ५.५९.३१ ।।।।
Slōka 32 / श्लोक ३२
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।। ५.५९.३२ ।।।।
Slōka 33 / श्लोक ३३
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.५९.३३ ।।।।
Slōka 34 / श्लोक ३४
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।। ५.५९.३४ ।।।।
Slōka 35 / श्लोक ३५
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।। ५.५९.३५ ।।।।
Slōka 36 / श्लोक ३६
एवमास्ते महाभागा सीता शोकपरायणा ।
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ।। ५.५९.३६ ।।