अरण्यकाण्डम्
Chapter 29 / सर्गः २९
Slōka 1 / श्लोक १
खरम् तु विरथम् रामो गदा पाणिम् अवस्थितम् ।
मृदु पूर्वम् महातेजाः परुषम् वाक्यम् अब्रवीत् ॥३-२९-१॥
Slōka 2 / श्लोक २
गज अश्व रथ संबाधे बले महति तिष्ठता ।
कृतम् सुदारुणम् कर्म सर्व लोक जुगुप्सितम् ॥३-२९-२॥
Slōka 3 / श्लोक ३
उद्वेजनीयो भूतानाम् नृशंसः पाप कर्मकृत् ।
त्रयाणाम् अपि लोकानाम् ईश्वरो अपि न तिष्ठति ॥३-२९-३॥
Slōka 4 / श्लोक ४
कर्म लोक विरुद्धम् तु कुर्वाणम् क्षणदा चर ।
तीक्ष्णम् सर्व जनो हन्ति सर्पम् दुष्टम् इव आगतम् ॥३-२९-४॥
Slōka 5 / श्लोक ५
लोभात् पापानि कुर्वाणः कामात् वा यो न बुध्यते ।
हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव ॥३-२९-५॥
Slōka 6 / श्लोक ६
वसतो दण्डकारण्ये तापसान् धर्म चारिणः ।
किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस ॥३-२९-६॥
Slōka 7 / श्लोक ७
न चिरम् पाप कर्माणः क्रूरा लोक जुगुप्सिताः ।
ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण मूला इव द्रुमाः ॥३-२९-७॥
Slōka 8 / श्लोक ८
अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः ।
घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम् ॥३-२९-८॥
Slōka 9 / श्लोक ९
न चिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् ।
स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदाचर ॥३-२९-९॥
Slōka 10 / श्लोक १०
पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् ।
अहम् आसादितो राज्ञा प्राणान् हन्तुम् निशाचर ॥३-२९-१०॥
Slōka 11 / श्लोक ११
अद्य भित्वा मया मुक्ताः शराः कांचन भूषणाः ।
विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥३-२९-११॥
Slōka 12 / श्लोक १२
ये त्वया दण्डकारण्ये भक्षिता धर्म चारिणः ।
तान् अद्य निहतः संख्ये स सैन्यो अनुगमिष्यसि ॥३-२९-१२॥
Slōka 13 / श्लोक १३
अद्य त्वाम् निहतम् बाणैः पश्यन्तु परमर्षयः ।
निरयस्थम् विमानस्था ये त्वया निहता पुरा ॥३-२९-१३॥
Slōka 14 / श्लोक १४
प्रहरस्व यथा कामम् कुरु यत्नम् कुलाधम ।
अद्य ते पातयिष्यामि शिरः ताल फलम् यथा ॥३-२९-१४॥
Slōka 15 / श्लोक १५
एवम् उक्तः तु रामेण क्रुद्धः संरक्त लोचनः ।
प्रति उवाच ततो रामम् प्रहसन् क्रोध मूर्चितः ॥३-२९-१५॥
Slōka 16 / श्लोक १६
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ आत्मज ।
आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशम्ससि ॥३-२९-१६॥
Slōka 17 / श्लोक १७
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।
कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥३-२९-१७॥
Slōka 18 / श्लोक १८
प्राकृताः तु अकृत आत्मानो लोके क्षत्रिय पांसनाः ।
निरर्थकम् विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥
Slōka 19 / श्लोक १९
कुलम् व्यपदिशन् वीरः समरे को अभिधास्यति ।
मृत्यु काले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥३-२९-१९॥
Slōka 20 / श्लोक २०
सर्वथा तु लघुत्वम् ते कत्थनेन विदर्शितम् ।
सुवर्ण प्रतिरूपेण तप्तेन इव कुश अग्निना ॥३-२९-२०॥
Slōka 21 / श्लोक २१
न तु माम् इह तिष्ठंतम् पश्यसि त्वम् गदा धरम् ।
धराधरम् इव अकंप्यम् पर्वतम् धातुभिः चितम् ॥३-२९-२१॥
Slōka 22 / श्लोक २२
पर्याप्तो अहम् गदा पाणिर् हन्तुम् प्राणान् रणे तव ।
त्रयाणाम् अपि लोकानाम् पाश हस्त इव अंतकः ॥३-२९-२२॥
Slōka 23 / श्लोक २३
कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् ।
अस्तम् प्राप्नोति सविता युद्ध विघ्नः ततो भवेत् ॥३-२९-२३॥
Slōka 24 / श्लोक २४
चतुर्दश सहस्राणि राक्षसानाम् हतानि ते ।
त्वत् विनाशात् करोमि अद्य तेषाम् अश्रु प्रमार्जनम् ॥३-२९-२४॥
Slōka 25 / श्लोक २५
इति उक्त्वा परम क्रुद्धः ताम् गदाम् परम अन्गदाम् ।
खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा ॥३-२९-२५॥
Slōka 26 / श्लोक २६
खर बाहु प्रमुक्ता सा प्रदीप्ता महती गदा ।
भस्म वृक्षाम् च गुल्माम् च कृत्वा अगात् तत् समीपतः ॥३-२९-२६॥
Slōka 27 / श्लोक २७
ताम् आपतन्तीम् महतीम् मृत्यु पाश उपमाम् गदाम् ।
अंतरिक्ष गताम् रामः चिच्छेद बहुधा शरैः ॥३-२९-२७॥
Slōka 28 / श्लोक २८
सा विशीर्णा शरैः भिन्ना पपात धरणी तले ।
गदा मंत्र औषधि बलैर् व्याली इव विनिपातिता ॥३-२९-२८॥