Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 70 / सर्गः ७०

Slōka 1 / श्लोक १

हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। ७.७०.१ ॥

Slōka 2 / श्लोक २

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ।। ७.७०.२ ॥

Slōka 3 / श्लोक ३

वरदास्तु महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। ७.७०.३ ॥

Slōka 4 / श्लोक ४

देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ७.७०.४ ॥

Slōka 5 / श्लोक ५

इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। ७.७०.५ ॥

Slōka 6 / श्लोक ६

तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ।। ७.७०.६ ॥

Slōka 7 / श्लोक ७

ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। ७.७०.७ ॥

Slōka 8 / श्लोक ८

सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। ७.७०.८ ॥

Slōka 9 / श्लोक ९

सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। ७.७०.९ ॥

Slōka 10 / श्लोक १०

क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। ७.७०.१० ॥

Slōka 11 / श्लोक ११

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। ७.७०.११ ॥

Slōka 12 / श्लोक १२

यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। ७.७०.१२ ॥

Slōka 13 / श्लोक १३

आरामैश्च विहारैश्च शोभमानं समन्ततः ।
शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। ७.७०.१३ ॥

Slōka 14 / श्लोक १४

तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। ७.७०.१४ ॥

Slōka 15 / श्लोक १५

तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। ७.७०.१५ ॥

Slōka 16 / श्लोक १६

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। ७.७०.१६ ॥

Slōka 17 / श्लोक १७

ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। ७.७०.१७ ।।