Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 41 / सर्गः ४१

Slōka 1 / श्लोक १

विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। ७.४१.१ ॥

Slōka 2 / श्लोक २

अथापराह्णसमये भ्रातृभिः सह राघवः ।
शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। ७.४१.२ ॥

Slōka 3 / श्लोक ३

सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।
कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। ७.४१.३ ॥

Slōka 4 / श्लोक ४

तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.४ ॥

Slōka 5 / श्लोक ५

निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।
निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.५ ॥

Slōka 6 / श्लोक ६

ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।
रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.६ ॥

Slōka 7 / श्लोक ७

स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।
वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.७ ॥

Slōka 8 / श्लोक ८

परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.८ ॥

Slōka 9 / श्लोक ९

सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः ।
त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.९ ॥

Slōka 10 / श्लोक १०

अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।
चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.१० ॥

Slōka 11 / श्लोक ११

एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।
उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.११ ॥

Slōka 12 / श्लोक १२

यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।
आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.१२ ॥

Slōka 13 / श्लोक १३

लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।
पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.१३ ॥

Slōka 14 / श्लोक १४

गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।
सिद्धानां च गतौ सौम्य मा विषादेन योजय ।प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। ७.४१.१४ ॥

Slōka 15 / श्लोक १५

एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।
अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। ७.४१.१५ ॥

Slōka 16 / श्लोक १६

एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। ७.४१.१६ ॥

Slōka 17 / श्लोक १७

विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। ७.४१.१७ ॥

Slōka 18 / श्लोक १८

अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। ७.४१.१८ ॥

Slōka 19 / श्लोक १९

अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। ७.४१.१९ ॥

Slōka 20 / श्लोक २०

काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।
वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। ७.४१.२० ॥

Slōka 21 / श्लोक २१

ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।
कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। ७.४१.२१ ॥

Slōka 22 / श्लोक २२

एता वाचः सुमधुरा भरतेन समीरिताः ।
श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। ७.४१.२२ ।।