युद्धकाण्डम्
Chapter 22 / सर्गः २२
Slōka 1 / श्लोक १
अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।
अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥।।
Slōka 2 / श्लोक २
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।
मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥।।
Slōka 3 / श्लोक ३
मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।
परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥।।
Slōka 4 / श्लोक ४
विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।
दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥।।
Slōka 5 / श्लोक ५
ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।
सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥।।
Slōka 6 / श्लोक ६
तस्मिन्विकृष्टे सहसा राघवेण शरासने ।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥।।
Slōka 7 / श्लोक ७
तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥।।
Slōka 8 / श्लोक ८
तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।
भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥।।
Slōka 9 / श्लोक ९
प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥।।
Slōka 10 / श्लोक १०
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।
बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥।।
Slōka 11 / श्लोक ११
आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।
दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥।।
Slōka 12 / श्लोक १२
मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥।।
Slōka 13 / श्लोक १३
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।
शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥।।
Slōka 14 / श्लोक १४
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।
सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥।।
Slōka 15 / श्लोक १५
सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।
योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥।।
Slōka 16 / श्लोक १६
तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥।।
Slōka 17 / श्लोक १७
ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।
उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥।।
Slōka 18 / श्लोक १८
पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।
स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥।।
Slōka 19 / श्लोक १९
रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।
सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥।।
Slōka 20 / श्लोक २०
जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।
आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥।।
Slōka 21 / श्लोक २१
धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।
एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥।।
Slōka 22 / श्लोक २२
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥।।
Slōka 23 / श्लोक २३
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।
देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥।।
Slōka 24 / श्लोक २४
सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।
अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥।।
Slōka 25 / श्लोक २५
पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।
स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥।।
Slōka 26 / श्लोक २६
तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।
विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥।।
Slōka 27 / श्लोक २७
न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।
रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥।।
Slōka 28 / श्लोक २८
विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥।।
Slōka 29 / श्लोक २९
हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।
तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥।।
Slōka 30 / श्लोक ३०
अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।
रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥।।
Slōka 31 / श्लोक ३१
महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥।।
Slōka 32 / श्लोक ३२
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥।।
Slōka 33 / श्लोक ३३
आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।
तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥।।
Slōka 34 / श्लोक ३४
अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।
तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥।।
Slōka 35 / श्लोक ३५
मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।
तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥।।
Slōka 36 / श्लोक ३६
विपातितः शरो यत्र वज्राशनिसमप्रभः ।
ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥।।
Slōka 37 / श्लोक ३७
तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥।।
Slōka 38 / श्लोक ३८
सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।
अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥।।
Slōka 39 / श्लोक ३९
तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।
विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥।।
Slōka 40 / श्लोक ४०
शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।
वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥।।
Slōka 41 / श्लोक ४१
पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥।।
Slōka 42 / श्लोक ४२
एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥।।
Slōka 43 / श्लोक ४३
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।
राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥।।
Slōka 44 / श्लोक ४४
अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।
पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥।।
Slōka 45 / श्लोक ४५
एष सेतुम् महाउत्साहः करोतु मयि वानरः ।
तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥।।
Slōka 46 / श्लोक ४६
एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।
अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥।।
Slōka 47 / श्लोक ४७
अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥।।
Slōka 48 / श्लोक ४८
असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।
ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥।।
Slōka 49 / श्लोक ४९
मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।
औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥।।
Slōka 50 / श्लोक ५०
औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥।।
Slōka 51 / श्लोक ५१
न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।
समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥।।
Slōka 52 / श्लोक ५२
तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।
ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥।।
Slōka 53 / श्लोक ५३
अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।
ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥।।
Slōka 54 / श्लोक ५४
बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।
ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥।।
Slōka 55 / श्लोक ५५
कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥।।
Slōka 56 / श्लोक ५६
चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।
समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥।।
Slōka 57 / श्लोक ५७
इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥।।
Slōka 58 / श्लोक ५८
करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।
हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥।।
Slōka 59 / श्लोक ५९
पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।
प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥।।
Slōka 60 / श्लोक ६०
समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।
समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥।।
Slōka 61 / श्लोक ६१
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।
नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥।।
Slōka 62 / श्लोक ६२
स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।
दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥।।
Slōka 63 / श्लोक ६३
वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।
मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥।।
Slōka 64 / श्लोक ६४
पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।
पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥।।
Slōka 65 / श्लोक ६५
दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥।।
Slōka 66 / श्लोक ६६
बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥।।
Slōka 67 / श्लोक ६७
प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।
द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥।।
Slōka 68 / श्लोक ६८
कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।
अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥।।
Slōka 69 / श्लोक ६९
त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।
चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥।।
Slōka 70 / श्लोक ७०
योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥।।
Slōka 71 / श्लोक ७१
योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥।।
Slōka 72 / श्लोक ७२
बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥।।
Slōka 73 / श्लोक ७३
शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।
ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥।।
Slōka 74 / श्लोक ७४
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।
दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥।।
Slōka 75 / श्लोक ७५
ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥।।
Slōka 76 / श्लोक ७६
तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।
ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥।।
Slōka 77 / श्लोक ७७
तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥।।
Slōka 78 / श्लोक ७८
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥।।
Slōka 79 / श्लोक ७९
ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥।।
Slōka 80 / श्लोक ८०
सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।
हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥।।
Slōka 81 / श्लोक ८१
अयम् हि विपुलो वीर सागरो मकरालयः ।
वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥।।
Slōka 82 / श्लोक ८२
अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥।।
Slōka 83 / श्लोक ८३
अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥।।
Slōka 84 / श्लोक ८४
केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।
घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥।।
Slōka 85 / श्लोक ८५
भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥।।
Slōka 86 / श्लोक ८६
तीरे निविविशे राज्ञा बहु मूल फल उदके ।
तद् अद्भुतम् राघव कर्म दुष्करम् ।समीक्ष्य देवाः सह सिद्ध चारणैः ।उपेत्य रामम् सहिता महर्षिभिः ।समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥।।
Slōka 87 / श्लोक ८७
जयस्व शत्रून् नर देव मेदिनीम् ।
ससागराम् पालय शाश्वतीः समाः ।इति इव रामम् नर देव सत्कृतम् ।शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥