Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 51 / सर्गः ५१

Slōka 1 / श्लोक १

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। ५.५१.१।।।।

Slōka 2 / श्लोक २

अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। ५.५१.२।।।।

Slōka 3 / श्लोक ३

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। ५.५१.३।।।।

Slōka 4 / श्लोक ४

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ५.५१.४।।।।

Slōka 5 / श्लोक ५

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।
पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५.५१.५।।।।

Slōka 6 / श्लोक ६

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ५.५१.६।।।।

Slōka 7 / श्लोक ७

तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ५.५१.७।।।।

Slōka 8 / श्लोक ८

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। ५.५१.८।।।।

Slōka 9 / श्लोक ९

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ५.५१.९।।।।

Slōka 10 / श्लोक १०

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। ५.५१.१०।।।।

Slōka 11 / श्लोक ११

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। ५.५१.११।।।।

Slōka 12 / श्लोक १२

स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। ५.५१.१२।।।।

Slōka 13 / श्लोक १३

तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। ५.५१.१३।।।।

Slōka 14 / श्लोक १४

वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। ५.५१.१४।।।।

Slōka 15 / श्लोक १५

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। ५.५१.१५।।।।

Slōka 16 / श्लोक १६

समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। ५.५१.१६।।।।

Slōka 17 / श्लोक १७

तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। ५.५१.१७।।।।

Slōka 18 / श्लोक १८

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। ५.५१.१८।।।।

Slōka 19 / श्लोक १९

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। ५.५१.१९।।।।

Slōka 20 / श्लोक २०

न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। ५.५१.२०।।।।

Slōka 21 / श्लोक २१

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। ५.५१.२१।।।।

Slōka 22 / श्लोक २२

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। ५.५१.२२।।।।

Slōka 23 / श्लोक २३

लक्षितेयं मया सीता तथा शोकपायणा ।
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। ५.५१.२३।।।।

Slōka 24 / श्लोक २४

नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। ५.५१.२४।।।।

Slōka 25 / श्लोक २५

तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।
न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। ५.५१.२५।।।।

Slōka 26 / श्लोक २६

अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। ५.५१.२६।।।।

Slōka 27 / श्लोक २७

सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।
न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। ५.५१.२७।।।।

Slōka 28 / श्लोक २८

न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। ५.५१.२८।।।।

Slōka 29 / श्लोक २९

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। ५.५१.२९।।।।

Slōka 30 / श्लोक ३०

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। ५.५१.३०।।।।

Slōka 31 / श्लोक ३१

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। ५.५१.३१।।।।

Slōka 32 / श्लोक ३२

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। ५.५१.३२।।।।

Slōka 33 / श्लोक ३३

अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। ५.५१.३३।।।।

Slōka 34 / श्लोक ३४

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। ५.५१.३४।।।।

Slōka 35 / श्लोक ३५

तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। ५.५१.३५।।।।

Slōka 36 / श्लोक ३६

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। ५.५१.३६।।।।

Slōka 37 / श्लोक ३७

स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। ५.५१.३७।।।।

Slōka 38 / श्लोक ३८

सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दृतस्य वानरस्य विशेषतः ।। ५.५१.३८।।।।

Slōka 39 / श्लोक ३९

सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। ५.५१.३९।।।।

Slōka 40 / श्लोक ४०

देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।
विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। ५.५१.४०।।।।

Slōka 41 / श्लोक ४१

सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।
। ५.५१.४१।।।।

Slōka 42 / श्लोक ४२

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।
यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।। ५.५१.४२।।।।

Slōka 43 / श्लोक ४३

सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। ५.५१.४३।।।।

Slōka 44 / श्लोक ४४

देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ५.५१.४४।।।।

Slōka 45 / श्लोक ४५

ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। ५.५१.४५।।।।

Slōka 46 / श्लोक ४६

स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।। ५.५१.४६।।