Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 72 / सर्गः ७२

Slōka 1 / श्लोक १

तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।। ७.७२.१ ॥

Slōka 2 / श्लोक २

तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।। ७.७२.२ ॥

Slōka 3 / श्लोक ३

तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। ७.७२.३ ॥

Slōka 4 / श्लोक ४

भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।। ७.७२.४ ॥

Slōka 5 / श्लोक ५

इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।। ७.७२.५ ॥

Slōka 6 / श्लोक ६

सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।। ७.७२.६ ॥

Slōka 7 / श्लोक ७

स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।। ७.७२.७ ॥

Slōka 8 / श्लोक ८

स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।। ७.७२.८ ॥

Slōka 9 / श्लोक ९

सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।। ७.७२.९ ॥

Slōka 10 / श्लोक १०

यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ।। ७.७२.१० ॥

Slōka 11 / श्लोक ११

द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।। ७.७२.११ ॥

Slōka 12 / श्लोक १२

स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।। ७.७२.१२ ॥

Slōka 13 / श्लोक १३

एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।। ७.७२.१३ ॥

Slōka 14 / श्लोक १४

नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।। ७.७२.१४ ॥

Slōka 15 / श्लोक १५

काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।। ७.७२.१५ ॥

Slōka 16 / श्लोक १६

ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ।। ७.७२.१६ ॥

Slōka 17 / श्लोक १७

तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। ७.७२.१७ ॥

Slōka 18 / श्लोक १८

रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। ७.७२.१८ ॥

Slōka 19 / श्लोक १९

सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। ७.७२.१९ ॥

Slōka 20 / श्लोक २०

आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। ७.७२.२० ॥

Slōka 21 / श्लोक २१

दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। ७.७२.२१ ।।