Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 113 / सर्गः ११३

Slōka 1 / श्लोक १

तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१॥

Slōka 2 / श्लोक २

वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।
अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२॥

Slōka 3 / श्लोक ३

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३॥

Slōka 4 / श्लोक ४

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४॥

Slōka 5 / श्लोक ५

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५॥

Slōka 6 / श्लोक ६

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६॥

Slōka 7 / श्लोक ७

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७॥

Slōka 8 / श्लोक ८

एवमुक्त: स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८॥

Slōka 9 / श्लोक ९

स याच्यमानो गुरुणा मया च दृढविक्रम: ।
राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९॥

Slōka 10 / श्लोक १०

पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१०॥

Slōka 11 / श्लोक ११

एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११॥

Slōka 12 / श्लोक १२

एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२॥

Slōka 13 / श्लोक १३

एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३॥

Slōka 14 / श्लोक १४

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४॥

Slōka 15 / श्लोक १५

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।
भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५॥

Slōka 16 / श्लोक १६

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६॥

Slōka 17 / श्लोक १७

अमृत: स महाबाहु: पिता दशरथस्तव ।
यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७॥

Slōka 18 / श्लोक १८

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८॥

Slōka 19 / श्लोक १९

तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९॥

Slōka 20 / श्लोक २०

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२०॥

Slōka 21 / श्लोक २१

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१॥

Slōka 22 / श्लोक २२

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२॥

Slōka 23 / श्लोक २३

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३॥

Slōka 24 / श्लोक २४

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४॥

Slōka 25 / श्लोक २५

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥