उत्तरकाण्डम्डम्
Chapter 38 / सर्गः ३८
Slōka 1 / श्लोक १
एवमास्ते महाबाहुरहन्यहनि राघवः ।
प्रशासत्सर्वकार्याणि पौरजानपदेषु च ।। ७.३८.१ ॥
Slōka 2 / श्लोक २
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् ।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.२ ॥
Slōka 3 / श्लोक ३
भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।
भवतस्तेजसोग्रेण रावणो निहतो मया ।। ७.३८.३ ॥
Slōka 4 / श्लोक ४
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।
अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ।। ७.३८.४ ॥
Slōka 5 / श्लोक ५
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव ।
भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ।। ७.३८.५ ॥
Slōka 6 / श्लोक ६
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।
प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ।। ७.३८.६ ॥
Slōka 7 / श्लोक ७
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै ।
दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ।। ७.३८.७ ॥
Slōka 8 / श्लोक ८
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।
प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ।। ७.३८.८ ॥
Slōka 9 / श्लोक ९
ततः प्रयाते जनके केकयं मातुलं प्रभुः ।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.९ ॥
Slōka 10 / श्लोक १०
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।
आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ।। ७.३८.१० ॥
Slōka 11 / श्लोक ११
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।
तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। ७.३८.११ ॥
Slōka 12 / श्लोक १२
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।
धनमादाय विपुलं रत्नानि विविधानि च ।। ७.३८.१२ ॥
Slōka 13 / श्लोक १३
युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।
रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। ७.३८.१३ ॥
Slōka 14 / श्लोक १४
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।
रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। ७.३८.१४ ॥
Slōka 15 / श्लोक १५
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।
हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। ७.३८.१५ ॥
Slōka 16 / श्लोक १६
तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। ७.३८.१६ ॥
Slōka 17 / श्लोक १७
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।
उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। ७.३८.१७ ॥
Slōka 18 / श्लोक १८
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।
रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। ७.३८.१८ ॥
Slōka 19 / श्लोक १९
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। ७.३८.१९ ॥
Slōka 20 / श्लोक २०
विसर्जयामास तदा कौसल्यानन्दवर्धनः ।
राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। ७.३८.२० ॥
Slōka 21 / श्लोक २१
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। ७.३८.२१ ॥
Slōka 22 / श्लोक २२
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। ७.३८.२२ ॥
Slōka 23 / श्लोक २३
युष्माकं चानुभावेन तेजसा च महात्मनाम् ।
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। ७.३८.२३ ॥
Slōka 24 / श्लोक २४
हेतुमात्रमहं तत्र भवतां तेजसा हतः ।
रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। ७.३८.२४ ॥
Slōka 25 / श्लोक २५
भवन्तश्च समानीता भरतेन महात्मना ।
श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। ७.३८.२५ ॥
Slōka 26 / श्लोक २६
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।
कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। ७.३८.२६ ॥
Slōka 27 / श्लोक २७
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।
दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। ७.३८.२७ ॥
Slōka 28 / श्लोक २८
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।
एष नः परमः काम एषा नः पीतिरुत्तमा ।। ७.३८.२८ ॥
Slōka 29 / श्लोक २९
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।
। ७.३८.२९ ॥
Slōka 30 / श्लोक ३०
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ।
प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। ७.३८.३० ॥
Slōka 31 / श्लोक ३१
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ।
वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। ७.३८.३१ ॥
Slōka 32 / श्लोक ३२
बाढमित्येव राजानो हर्षेण परमान्विताः ।
उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। ७.३८.३२ ॥
Slōka 33 / श्लोक ३३
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।
। ७.३८.३३ ।।