Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 46 / सर्गः ४६

Slōka 1 / श्लोक १

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। ७.४६.१ ॥

Slōka 2 / श्लोक २

सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। ७.४६.२ ॥

Slōka 3 / श्लोक ३

सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। ७.४६.३ ॥

Slōka 4 / श्लोक ४

सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। ७.४६.४ ॥

Slōka 5 / श्लोक ५

आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।
रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। ७.४६.५ ॥

Slōka 6 / श्लोक ६

एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। ७.४६.६ ॥

Slōka 7 / श्लोक ७

त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। ७.४६.७ ॥

Slōka 8 / श्लोक ८

गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। ७.४६.८ ॥

Slōka 9 / श्लोक ९

एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। ७.४६.९ ॥

Slōka 10 / श्लोक १०

वासांसि च महार्हाणि रत्नानि विविधानि च ।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। ७.४६.१० ॥

Slōka 11 / श्लोक ११

इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।
वस्त्राणि च महार्हाणि धनानि विविधानि च ।। ७.४६.११ ॥

Slōka 12 / श्लोक १२

सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.१२ ॥

Slōka 13 / श्लोक १३

अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।
अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.१३ ॥

Slōka 14 / श्लोक १४

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.१४ ॥

Slōka 15 / श्लोक १५

औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.१५ ॥

Slōka 16 / श्लोक १६

अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.१६ ॥

Slōka 17 / श्लोक १७

पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.१७ ॥

Slōka 18 / श्लोक १८

लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.१८ ॥

Slōka 19 / श्लोक १९

ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.१९ ॥

Slōka 20 / श्लोक २०

योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.२० ॥

Slōka 21 / श्लोक २१

सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.२१ ॥

Slōka 22 / श्लोक २२

सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। ७.४६.२२ ॥

Slōka 23 / श्लोक २३

आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। ७.४६.२३ ॥

Slōka 24 / श्लोक २४

निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।
। ७.४६.२४ ॥

Slōka 25 / श्लोक २५

सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। ७.४६.२५ ॥

Slōka 26 / श्लोक २६

जाह्नवीतीरमासाद्य चिराभिलषितं मम ।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। ७.४६.२६ ॥

Slōka 27 / श्लोक २७

नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। ७.४६.२७ ॥

Slōka 28 / श्लोक २८

ममापि दयितो रामो जीवितादपि लक्ष्मण ।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। ७.४६.२८ ॥

Slōka 29 / श्लोक २९

तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।
ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। ७.४६.२९ ॥

Slōka 30 / श्लोक ३०

ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। ७.४६.३० ॥

Slōka 31 / श्लोक ३१

ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।
त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। ७.४६.३१ ॥

Slōka 32 / श्लोक ३२

तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।
नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.३२ ॥

Slōka 33 / श्लोक ३३

इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।
। ७.४६.३३ ॥

Slōka 34 / श्लोक ३४

तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।
गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.३४ ।।