सुन्दरकाण्डम्
Chapter 5 / सर्गः ५
Slōka 1 / श्लोक १
ततः स मध्यंगतमंशुमन्तं ।
ज्योत्स्नावितानम् महदुद्वमन्तम् ।ददर्श धीमान् दिवि भानुमन्तम् ।गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥
Slōka 2 / श्लोक २
लोकस्य पापानि विनाशयन्तम् ।
महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तम् ।ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥
Slōka 3 / श्लोक ३
या भाति लक्ष्मीर्भुवि मन्दरस्था ।
तथा प्रदोषेषु च सागरस्था ।तथैव तोयेषु च पुष्करस्था ।रराज सा चारुनिशाकरस्था ॥५-५-३॥
Slōka 4 / श्लोक ४
हम्सो यथा राजतपञ्जरसथः ।
सिम्हो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थ ।श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥
Slōka 5 / श्लोक ५
स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।
महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धश्^इङ्गो ।रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥
Slōka 6 / श्लोक ६
विनष्टशीताम्बुतुषारपङ्को ।
महाग्रहग्राहविनष्टपङ्कः ।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥
Slōka 7 / श्लोक ७
शीलातलम् प्राप्य यथा मृगेन्द्रो ।
महारणम् प्राप्य यथा गजेन्द्रह् ।राज्यम् समासाद्य यथा नरेन्द्र ।स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥
Slōka 8 / श्लोक ८
प्रकाशचन्द्रोदयनष्टदोषः ।
प्रवृत्तरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः ।स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥
Slōka 9 / श्लोक ९
तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।
स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तम्चराश्चापि तथा प्रवृत्ता ।विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥
Slōka 10 / श्लोक १०
मत्तप्रमत्तानि समाकुलानि ।
तथाश्वभद्रासनसम्कुलानि ।वीरः श्रिया चापि समाकुलानि ।ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥
Slōka 11 / श्लोक ११
परस्परं चाधिकमाक्षिपन्ति ।
भुआम्श्च पीनानधिनिक्षिपन्ति ।मत्तप्रलापानधिकम् क्षिपन्ति ।मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥
Slōka 12 / श्लोक १२
रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।
गात्राणि कान्तासु च विक्षिपन्ति ।रूपाअणि चित्राणि च विक्षिपन्ति ।दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥
Slōka 13 / श्लोक १३
ददर्श कान्ताश्च समालभन्त्य ।
स्तथा परास्तत्र पुनः स्वपन्त्यः ।सुरूपवक्त्राश्च तथा हसन्त्यः ।क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥
Slōka 14 / श्लोक १४
महागजैश्चापि तथा नदद्भिः ।
सुपूजितैश्चापि तथा सुसद्भिः ।रराज वीरैश्च विनिःश्वसद्भि ।र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥
Slōka 15 / श्लोक १५
बुद्धिप्रधानान् रुचिराभिधानान् ।
सम्श्रद्दधानान् जगतः प्रधानान् ।नानाविधानान् रुचिराभिधानान् ।ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥
Slōka 16 / श्लोक १६
ननन्द दृष्ट्वा स च तान् सुरूपा ।
न्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स तदानुरूपान् ।ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥
Slōka 17 / श्लोक १७
ततो वरार्हः सुविशुद्धभावा ।
स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।प्रियेषु पानेषु च सक्तभावा ।ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥
Slōka 18 / श्लोक १८
श्रिया ज्वलन्तीस्त्रपयोगूढा ।
निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा ।यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥
Slōka 19 / श्लोक १९
अन्याः पुनर्हर्म्यतलोपविष्टा ।
स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।भर्तुः प्रिया धर्मपरा निविष्टा ।ददर्श धीमान् मदनाभिविष्टाः ॥५-५-१९॥
Slōka 20 / श्लोक २०
अप्रावृताः काञ्चनराजिवर्णाः ।
काश्चित्परार्थ्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥
Slōka 21 / श्लोक २१
ततह् प्रियान् प्राप्य मनोभिरामान् ।
सुप्रीतियुक्ताः सुमनोभिरामाः ।गृहेषु हृष्टाः परमाभिरामाः ।हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥
Slōka 22 / श्लोक २२
चन्द्रप्रकाशाश्च हि वक्त्रमाला ।
वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषाणानाम् च ददर्श मालाः ।शतह्रदानामिव चारुमालाः ॥५-५-२२॥
Slōka 23 / श्लोक २३
न त्वेव सीताम् परमाभिजाताम् ।
पथि स्थिते राजकुले प्रजाताम् ।लताम् प्रपुल्लामिव साधु जाताम् ।ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥
Slōka 24 / श्लोक २४
सनातने वर्त्मानि सम्निविष्टाम् ।
रामेक्षणां तां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥
Slōka 25 / श्लोक २५
उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।
पुरा वरार्होत्तमनिष्ककण्ठीम् ।सुजातपक्ष्मामभिरक्तकण्ठीम् ।वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥
Slōka 26 / श्लोक २६
अव्यक्तरेखामिव चन्द्ररेखां ।
पाम्सुप्रदिग्धामिव हेमरेखाम् ।क्षतप्ररूढामिव बाणरेखां ।वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥
Slōka 27 / श्लोक २७
सीतामपश्यन् मनुजेश्वरस्य ।
रामस्य पत्नीम् वदताम् वरस्य ।बभूव दुःखाभिहतश्चिरस्य ।प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥