Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 68 / सर्गः ६८

Slōka 1 / श्लोक १

कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। ७.६८.१ ॥

Slōka 2 / श्लोक २

ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।
निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। ७.६८.२ ॥

Slōka 3 / श्लोक ३

एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। ७.६८.३ ॥

Slōka 4 / श्लोक ४

ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। ७.६८.४ ॥

Slōka 5 / श्लोक ५

ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ।। ७.६८.५ ॥

Slōka 6 / श्लोक ६

ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। ७.६८.६ ॥

Slōka 7 / श्लोक ७

आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। ७.६८.७ ॥

Slōka 8 / श्लोक ८

तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। ७.६८.८ ॥

Slōka 9 / श्लोक ९

तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। ७.६८.९ ॥

Slōka 10 / श्लोक १०

उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। ७.६८.१० ॥

Slōka 11 / श्लोक ११

पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।
शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। ७.६८.११ ॥

Slōka 12 / श्लोक १२

तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। ७.६८.१२ ॥

Slōka 13 / श्लोक १३

तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। ७.६८.१३ ॥

Slōka 14 / श्लोक १४

मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। ७.६८.१४ ॥

Slōka 15 / श्लोक १५

तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। ७.६८.१५ ॥

Slōka 16 / श्लोक १६

निहताश्च हि मे सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। ७.६८.१६ ॥

Slōka 17 / श्लोक १७

तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।। ७.६८.१७ ॥

Slōka 18 / श्लोक १८

तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।
शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। ७.६८.१८ ॥

Slōka 19 / श्लोक १९

यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।
स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। ७.६८.१९ ॥

Slōka 20 / श्लोक २०

तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ।। ७.६८.२० ।।