युद्धकाण्डम्
Chapter 16 / सर्गः १६
Slōka 1 / श्लोक १
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥।।
Slōka 2 / श्लोक २
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥।।
Slōka 3 / श्लोक ३
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥।।
Slōka 4 / श्लोक ४
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥।।
Slōka 5 / श्लोक ५
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥।।
Slōka 6 / श्लोक ६
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥।।
Slōka 7 / श्लोक ७
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥।।
Slōka 8 / श्लोक ८
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥।।
Slōka 9 / श्लोक ९
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥।।
Slōka 10 / श्लोक १०
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥।।
Slōka 11 / श्लोक ११
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥।।
Slōka 12 / श्लोक १२
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥।।
Slōka 13 / श्लोक १३
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥।।
Slōka 14 / श्लोक १४
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।
रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥।।
Slōka 15 / श्लोक १५
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥।।
Slōka 16 / श्लोक १६
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥।।
Slōka 17 / श्लोक १७
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥।।
Slōka 18 / श्लोक १८
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥।।
Slōka 19 / श्लोक १९
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥।।
Slōka 20 / श्लोक २०
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥।।
Slōka 21 / श्लोक २१
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥।।
Slōka 22 / श्लोक २२
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥।।
Slōka 23 / श्लोक २३
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥।।
Slōka 24 / श्लोक २४
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥।।
Slōka 25 / श्लोक २५
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥।।
Slōka 26 / श्लोक २६
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥।।
Slōka 27 / श्लोक २७
निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।परीत काला हि गत आयुषो नरा ।हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥