उत्तरकाण्डम्डम्
Chapter 63 / सर्गः ६३
Slōka 1 / श्लोक १
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।
शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ।। ७.६३.१ ॥
Slōka 2 / श्लोक २
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ।। ७.६३.२ ॥
Slōka 3 / श्लोक ३
अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ।। ७.६३.३ ॥
Slōka 4 / श्लोक ४
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। ७.६३.४ ॥
Slōka 5 / श्लोक ५
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।
तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ।। ७.६३.५ ॥
Slōka 6 / श्लोक ६
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
अधर्मसहितं चैव परलोकविवर्जितम् ।। ७.६३.६ ॥
Slōka 7 / श्लोक ७
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ।। ७.६३.७ ॥
Slōka 8 / श्लोक ८
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ।। ७.६३.८ ॥
Slōka 9 / श्लोक ९
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ।। ७.६३.९ ॥
Slōka 10 / श्लोक १०
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ।। ७.६३.१० ॥
Slōka 11 / श्लोक ११
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ।। ७.६३.११ ॥
Slōka 12 / श्लोक १२
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः ।
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ।। ७.६३.१२ ॥
Slōka 13 / श्लोक १३
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।
सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ।। ७.६३.१३ ॥
Slōka 14 / श्लोक १४
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।
अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ।। ७.६३.१४ ॥
Slōka 15 / श्लोक १५
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।
पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।। ७.६३.१५ ॥
Slōka 16 / श्लोक १६
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।। ७.६३.१६ ॥
Slōka 17 / श्लोक १७
ऋषयश्च महात्मानो यमुनातीरवासिनः ।
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। ७.६३.१७ ॥
Slōka 18 / श्लोक १८
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। ७.६३.१८ ॥
Slōka 19 / श्लोक १९
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।
अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। ७.६३.१९ ॥
Slōka 20 / श्लोक २०
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।
। ७.६३.२० ॥
Slōka 21 / श्लोक २१
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।
अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। ७.६३.२१ ॥
Slōka 22 / श्लोक २२
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।
मधुकैटभयोर्वीर विघाते वर्तमानयोः ।स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। ७.६३.२२ ॥
Slōka 23 / श्लोक २३
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।
अनेन शरमुख्येन ततो लोकांश्चकार सः ।। ७.६३.२३ ॥
Slōka 24 / श्लोक २४
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। ७.६३.२४ ॥
Slōka 25 / श्लोक २५
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। ७.६३.२५ ॥
Slōka 26 / श्लोक २६
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। ७.६३.२६ ॥
Slōka 27 / श्लोक २७
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।
तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। ७.६३.२७ ॥
Slōka 28 / श्लोक २८
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। ७.६३.२८ ॥
Slōka 29 / श्लोक २९
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। ७.६३.२९ ॥
Slōka 30 / श्लोक ३०
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।
यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। ७.६३.३० ॥
Slōka 31 / श्लोक ३१
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। ७.६३.३१ ।।