उत्तरकाण्डम्डम्
Chapter 5 / सर्गः ५
Slōka 1 / श्लोक १
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ।। ७.५.१ ॥
Slōka 2 / श्लोक २
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ।। ७.५.२ ॥
Slōka 3 / श्लोक ३
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ।। ७.५.३ ॥
Slōka 4 / श्लोक ४
स तया सह संयुक्तो रराज रजनीचरः ।
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।। ७.५.४ ॥
Slōka 5 / श्लोक ५
देववत्यां सुकेशस्तु जनयामास राघव ।
। ७.५.५ ॥
Slōka 6 / श्लोक ६
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ७.५.६ ॥
Slōka 7 / श्लोक ७
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।। ७.५.७ ॥
Slōka 8 / श्लोक ८
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ७.५.८ ॥
Slōka 9 / श्लोक ९
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।। ७.५.९ ॥
Slōka 10 / श्लोक १०
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।। ७.५.१० ॥
Slōka 11 / श्लोक ११
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।
सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। ७.५.११ ॥
Slōka 12 / श्लोक १२
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।
सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। ७.५.१२ ॥
Slōka 13 / श्लोक १३
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।। ७.५.१३ ॥
Slōka 14 / श्लोक १४
तपसाराधितो देव यदि नो दिशसे वरम् ।
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। ७.५.१४ ॥
Slōka 15 / श्लोक १५
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।
। ७.५.१५ ॥
Slōka 16 / श्लोक १६
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।
स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। ७.५.१६ ॥
Slōka 17 / श्लोक १७
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।
सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। ७.५.१७ ॥
Slōka 18 / श्लोक १८
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। ७.५.१८ ॥
Slōka 19 / श्लोक १९
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। ७.५.१९ ॥
Slōka 20 / श्लोक २०
ओजस्तेजोबलवतां महतामात्मतेजसा ।
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। ७.५.२० ॥
Slōka 21 / श्लोक २१
अस्माकमपि तावत्त्वं गृहं कुरु महामते ।
हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.२१ ॥
Slōka 22 / श्लोक २२
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।
निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.२२ ॥
Slōka 23 / श्लोक २३
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.२३ ॥
Slōka 24 / श्लोक २४
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे ।
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.२४ ॥
Slōka 25 / श्लोक २५
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।
स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.२५ ॥
Slōka 26 / श्लोक २६
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।
तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.२६ ॥
Slōka 27 / श्लोक २७
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.२७ ॥
Slōka 28 / श्लोक २८
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।
। ७.५.२८ ॥
Slōka 29 / श्लोक २९
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।
सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.२९ ॥
Slōka 30 / श्लोक ३०
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।
लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.३० ॥
Slōka 31 / श्लोक ३१
एतस्मिन्नेव काले तु यथाकामं च राघव ।
नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.३१ ॥
Slōka 32 / श्लोक ३२
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.३२ ॥
Slōka 33 / श्लोक ३३
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.३३ ॥
Slōka 34 / श्लोक ३४
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।
कुतदारास्तु ते राम सुकेशतनयास्तदा ।। ७.५.३४ ॥
Slōka 35 / श्लोक ३५
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।
ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.३५ ॥
Slōka 36 / श्लोक ३६
स तस्यां जनयामास यदपत्यं निबोध तत् ।
वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.३६ ॥
Slōka 37 / श्लोक ३७
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.३७ ॥
Slōka 38 / श्लोक ३८
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना ।
नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.३८ ॥
Slōka 39 / श्लोक ३९
सुमाली जनयामास यदपत्यं निशाचरः ।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.३९ ॥
Slōka 40 / श्लोक ४०
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः ।
धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.४० ॥
Slōka 41 / श्लोक ४१
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥
Slōka 42 / श्लोक ४२
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।
। ७.५.४१ ॥
Slōka 43 / श्लोक ४३
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।
भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ७.५.४२ ॥
Slōka 44 / श्लोक ४४
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।
अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। ७.५.४३ ॥
Slōka 45 / श्लोक ४५
अनिलश्चानलश्चैव हरः सम्पातिरेव च ।
एते विभीषणामात्या मालेयास्तु निशाचरः ।। ७.५.४४ ॥
Slōka 46 / श्लोक ४६
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।
सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। ७.५.४५ ॥
Slōka 47 / श्लोक ४७
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।
वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। ७.५.४६ ।।