Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 49 / सर्गः ४९

Slōka 1 / श्लोक १

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।
हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। ५.४९.१।।।।

Slōka 2 / श्लोक २

भ्राजमानं महार्हेण काञ्चनेन विराजता ।
मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। ५.४९.२।।।।

Slōka 3 / श्लोक ३

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ५.४९.३।।।।

Slōka 4 / श्लोक ४

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। ५.४९.४।।।।

Slōka 5 / श्लोक ५

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।
दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५.४९.५।।।।

Slōka 6 / श्लोक ६

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ५.४९.६।।।।

Slōka 7 / श्लोक ७

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।
पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। ५.४९.७।।।।

Slōka 8 / श्लोक ८

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।
भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। ५.४९.८।।।।

Slōka 9 / श्लोक ९

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। ५.४९.९।।।।

Slōka 10 / श्लोक १०

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।
वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। ५.४९.१०।।।।

Slōka 11 / श्लोक ११

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ५.४९.११।।।।

Slōka 12 / श्लोक १२

सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।
कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। ५.४९.१२।।।।

Slōka 13 / श्लोक १३

सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। ५.४९.१३।।।।

Slōka 14 / श्लोक १४

अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। ५.४९.१४।।।।

Slōka 15 / श्लोक १५

स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।
विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। ५.४९.१५।।।।

Slōka 16 / श्लोक १६

भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।
मनसा चिन्तयामास तेजसा तस्य मोहितः ।। ५.४९.१६।।।।

Slōka 17 / श्लोक १७

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। ५.४९.१७।।।।

Slōka 18 / श्लोक १८

यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।
स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। ५.४९.१८।।।।

Slōka 19 / श्लोक १९

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। ५.४९.१९।।।।

Slōka 20 / श्लोक २०

अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।
इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। ५.४९.२०।।