अयोध्याकाण्डम्
Chapter 114 / सर्गः ११४
Slōka 1 / श्लोक १
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।
अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥ २.११४.१॥
Slōka 2 / श्लोक २
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२॥
Slōka 3 / श्लोक ३
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३॥
Slōka 4 / श्लोक ४
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४॥
Slōka 5 / श्लोक ५
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५॥
Slōka 6 / श्लोक ६
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६॥
Slōka 7 / श्लोक ७
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७॥
Slōka 8 / श्लोक ८
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८॥
Slōka 9 / श्लोक ९
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९॥
Slōka 10 / श्लोक १०
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१०॥
Slōka 11 / श्लोक ११
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११॥
Slōka 12 / श्लोक १२
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२॥
Slōka 13 / श्लोक १३
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३॥
Slōka 14 / श्लोक १४
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४॥
Slōka 15 / श्लोक १५
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५॥
Slōka 16 / श्लोक १६
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६॥
Slōka 17 / श्लोक १७
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७॥
Slōka 18 / श्लोक १८
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८॥
Slōka 19 / श्लोक १९
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९॥
Slōka 20 / श्लोक २०
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२०॥
Slōka 21 / श्लोक २१
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१॥
Slōka 22 / श्लोक २२
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥ २.११४.२२॥
Slōka 23 / श्लोक २३
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।
धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥ २.११४.२३॥
Slōka 24 / श्लोक २४
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।
प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४॥
Slōka 25 / श्लोक २५
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।
गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥ २.११४.२५॥
Slōka 26 / श्लोक २६
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।
नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६॥
Slōka 27 / श्लोक २७
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७॥
Slōka 28 / श्लोक २८
कदा नु खलु मे भ्राता महोत्सव इवागत: ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥ २.११४.२८॥
Slōka 29 / श्लोक २९
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥ २.११४.२९॥
Slōka 30 / श्लोक ३०
एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३०॥
Slōka 31 / श्लोक ३१
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥ २.११४.३१ ॥