सुन्दरकाण्डम्
Chapter 2 / सर्गः २
Slōka 1 / श्लोक १
स सागरमनाधृष्यमतिक्रम्य महाबलः ।
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥५-२-१॥
Slōka 2 / श्लोक २
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥५-२-२॥
Slōka 3 / श्लोक ३
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।
अनिःस्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥
Slōka 4 / श्लोक ४
शतान्यहं योजनानां क्रमेयं सुबहुन्यपि ।
किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥
Slōka 5 / श्लोक ५
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५-२-५॥
Slōka 6 / श्लोक ६
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।
गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥
Slōka 7 / श्लोक ७
शैलांश्च तरुसंचन्नान् वनराजीश्च पुष्पिताः ।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥५-२-७॥
Slōka 8 / श्लोक ८
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥५-२-८॥
Slōka 9 / श्लोक ९
सरLआन् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।
प्रियाLआन्मुचुLइन्दांश्च कुटजान् केतकानपि ॥५-२-९॥
Slōka 10 / श्लोक १०
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।
असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥
Slōka 11 / श्लोक ११
पुष्पभारनिबद्धांश्च तथा मुकुLइतानपि ।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥
Slōka 12 / श्लोक १२
हंसकारण्डवाकीर्णान्वापीः पद्मोत्मलायुताः ।
आक्रीडान् विविधान् रम्यान्विविधांश्च जलाशयान् ॥५-२-१२॥
Slōka 13 / श्लोक १३
संततान् विविधैर्वऋकैः सर्वर्तुफलपुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥
Slōka 14 / श्लोक १४
समासाद्य च लक्ष्मीवन् लङ्कां रावणपालिताम् ।
परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥
Slōka 15 / श्लोक १५
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥५-२-१५॥
Slōka 16 / श्लोक १६
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।
गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥५-२-१६॥
Slōka 17 / श्लोक १७
पाण्डुराभिः प्रतोLईभिरुच्चाभिरभिसंवृताम् ।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥५-२-१७॥
Slōka 18 / श्लोक १८
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्किविचित्रितैः ।
ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥५-२-१८॥
Slōka 19 / श्लोक १९
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।
ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥५-२-१९॥
Slōka 20 / श्लोक २०
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।
प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥५-२-२०॥
Slōka 21 / श्लोक २१
पप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥५-२-२१॥
Slōka 22 / श्लोक २२
मन्सेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥
Slōka 23 / श्लोक २३
कैलासशिखरप्रख्यामालिख्स्न्तीमिवाम्बरम् ।
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥
Slōka 24 / श्लोक २४
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥
Slōka 25 / श्लोक २५
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः ।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥
Slōka 26 / श्लोक २६
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥
Slōka 27 / श्लोक २७
आगत्यापीह हरयो भविष्यन्ति निररथकाः ।
न हि युद्धेन व लङ्का शक्या जेतुं सुरैरपि ॥५-२-२७॥
Slōka 28 / श्लोक २८
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।
प्राप्यापि स महाबाहुः किम् करिष्यति राघवः ॥५-२-२८॥
Slōka 29 / श्लोक २९
अवकाशो न सान्त्वस्य रक्षसेष्वभिगम्यते ।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥
Slōka 30 / श्लोक ३०
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥
Slōka 31 / श्लोक ३१
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥५-२-३१॥
Slōka 32 / श्लोक ३२
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।
गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥५-२-३२॥
Slōka 33 / श्लोक ३३
अनेन रूपेण मया न शक्या रक्षसां पुरी ।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥
Slōka 34 / श्लोक ३४
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।
वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥
Slōka 35 / श्लोक ३५
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥५-२-३५॥
Slōka 36 / श्लोक ३६
तां पुरीं तादृशीं दृष्ट्वा दुराधर्शां सुरासुरैः ।
हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥५-२-३६॥
Slōka 37 / श्लोक ३७
केनोपायेन पशेयं मैथिलीं जनकात्मजाम् ।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥
Slōka 38 / श्लोक ३८
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।
एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥
Slōka 39 / श्लोक ३९
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।
विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥
Slōka 40 / श्लोक ४०
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥
Slōka 41 / श्लोक ४१
न विनश्येत्कथं कार्यं वैक्लब्यम् न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-२-४१॥
Slōka 42 / श्लोक ४२
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥
Slōka 43 / श्लोक ४३
न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥
Slōka 44 / श्लोक ४४
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।
न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥५-२-४४॥
Slōka 45 / श्लोक ४५
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥५-२-४५॥
Slōka 46 / श्लोक ४६
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥
Slōka 47 / श्लोक ४७
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।
विचिन्वन् भवनं स्र्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥
Slōka 48 / श्लोक ४८
इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।
आचकांक्षे ततो वीरो वैदेह्या द्रशनोतुसकः ॥५-२-४८॥
Slōka 49 / श्लोक ४९
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।
वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥५-२-४९॥
Slōka 50 / श्लोक ५०
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५-२-५०॥
Slōka 51 / श्लोक ५१
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।
शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥
Slōka 52 / श्लोक ५२
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।
तलैः स्फतिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥
Slōka 53 / श्लोक ५३
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥
Slōka 54 / श्लोक ५४
काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।
लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥
Slōka 55 / श्लोक ५५
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।
आसीद्विष्ण्डो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥
Slōka 56 / श्लोक ५६
स पाण्डुराविद्धविमानमालिनीं ।
महार्हजाम्बूनदजालतोरणाम् ।यशस्विनीं रावणबाहुपालितां ।क्षपाचरैर्भिमबलैः समावृताम् ॥५-२-५६॥
Slōka 57 / श्लोक ५७
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं ।
स्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोक ।मुत्तिष्ठते नैकसहस्ररश्मिः ॥५-२-५७॥
Slōka 58 / श्लोक ५८
शङ्खप्रभं क्षीरमृणालवर्ण ।
मुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स हरिप्रवीरः ।प्लोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥