सुन्दरकाण्डम्
Chapter 48 / सर्गः ४८
Slōka 1 / श्लोक १
ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। ५.४८.१।।।।
Slōka 2 / श्लोक २
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।। ५.४८.२।।।।
Slōka 3 / श्लोक ३
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।
न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। ५.४८.३।।।।
Slōka 4 / श्लोक ४
न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। ५.४८.४।।।।
Slōka 5 / श्लोक ५
न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।
न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। ५.४८.५।।।।
Slōka 6 / श्लोक ६
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। ५.४८.६।।।।
Slōka 7 / श्लोक ७
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। ५.४८.७।।।।
Slōka 8 / श्लोक ८
बलानि सुसमृद्धानि साश्वनागरथानि च ।
सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। ५.४८.८।।।।
Slōka 9 / श्लोक ९
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।
। ५.४८.९।।।।
Slōka 10 / श्लोक १०
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। ५.४८.१०।।।।
Slōka 11 / श्लोक ११
बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। ५.४८.११।।।।
Slōka 12 / श्लोक १२
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। ५.४८.१२।।।।
Slōka 13 / श्लोक १३
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। ५.४८.१३।।।।
Slōka 14 / श्लोक १४
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।। ५.४८.१४।।।।
Slōka 15 / श्लोक १५
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। ५.४८.१५।।।।
Slōka 16 / श्लोक १६
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। ५.४८.१६।।।।
Slōka 17 / श्लोक १७
ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।
युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। ५.४८.१७।।।।
Slōka 18 / श्लोक १८
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।
निर्जगाम महातेजाः समुद्र इव पर्वसु ।। ५.४८.१८।।।।
Slōka 19 / श्लोक १९
स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।
रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। ५.४८.१९।।।।
Slōka 20 / श्लोक २०
स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। ५.४८.२०।।।।
Slōka 21 / श्लोक २१
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।
निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। ५.४८.२१।।।।
Slōka 22 / श्लोक २२
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।
हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। ५.४८.२२।।।।
Slōka 23 / श्लोक २३
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।
दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। ५.४८.२३।।।।
Slōka 24 / श्लोक २४
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।
नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। ५.४८.२४।।।।
Slōka 25 / श्लोक २५
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।
विननाद महानादं व्यवर्धत च वेगवान् ।। ५.४८.२५।।।।
Slōka 26 / श्लोक २६
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। ५.४८.२६।।।।
Slōka 27 / श्लोक २७
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।
कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। ५.४८.२७।।।।
Slōka 28 / श्लोक २८
स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।
शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। ५.४८.२८।।।।
Slōka 29 / श्लोक २९
ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।
मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। ५.४८.२९।।।।
Slōka 30 / श्लोक ३०
ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। ५.४८.३०।।।।
Slōka 31 / श्लोक ३१
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।
हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।। ५.४८.३१।।।।
Slōka 32 / श्लोक ३२
शराणआमग्रतस्तस्य पुनः समभिवर्तत ।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। ५.४८.३२।।।।
Slōka 33 / श्लोक ३३
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। ५.४८.३३।।।।
Slōka 34 / श्लोक ३४
हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। ५.४८.३४।।।।
Slōka 35 / श्लोक ३५
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।
जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। ५.४८.३५।।।।
Slōka 36 / श्लोक ३६
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। ५.४८.३६।।।।
Slōka 37 / श्लोक ३७
ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।
सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। ५.४८.३७।।।।
Slōka 38 / श्लोक ३८
अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। ५.४८.३८।।।।
Slōka 39 / श्लोक ३९
तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।
अभवन्निर्विचेष्टश्च पपात च महीतले ।। ५.४८.३९।।।।
Slōka 40 / श्लोक ४०
ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।
पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। ५.४८.४०।।।।
Slōka 41 / श्लोक ४१
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।
हनूमांश्चिन्तयामास वरदानं पितामहात् ।। ५.४८.४१।।।।
Slōka 42 / श्लोक ४२
न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।
इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। ५.४८.४२।।।।
Slōka 43 / श्लोक ४३
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। ५.४८.४३।।।।
Slōka 44 / श्लोक ४४
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। ५.४८.४४।।।।
Slōka 45 / श्लोक ४५
ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।
राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। ५.४८.४५।।।।
Slōka 46 / श्लोक ४६
स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। ५.४८.४६।।।।
Slōka 47 / श्लोक ४७
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। ५.४८.४७।।।।
Slōka 48 / श्लोक ४८
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।
कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।। ५.४८.४८।।।।
Slōka 49 / श्लोक ४९
स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। ५.४८.४९।।।।
Slōka 50 / श्लोक ५०
अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। ५.४८.५०।।।।
Slōka 51 / श्लोक ५१
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।
पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। ५.४८.५१।।।।
Slōka 52 / श्लोक ५२
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। ५.४८.५२।।।।
Slōka 53 / श्लोक ५३
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।
समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। ५.४८.५३।।।।
Slōka 54 / श्लोक ५४
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। ५.४८.५४।।।।
Slōka 55 / श्लोक ५५
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ५.४८.५५।।।।
Slōka 56 / श्लोक ५६
को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। ५.४८.५६।।।।
Slōka 57 / श्लोक ५७
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। ५.४८.५७।।।।
Slōka 58 / श्लोक ५८
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। ५.४८.५८।।।।
Slōka 59 / श्लोक ५९
स ददर्श महातेजा रावणः कपिसत्तमम् ।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। ५.४८.५९।।।।
Slōka 60 / श्लोक ६०
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। ५.४८.६०।।।।
Slōka 61 / श्लोक ६१
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। ५.४८.६१।।।।
Slōka 62 / श्लोक ६२
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।। ५.४८.६२।।