किष्किन्धाकाण्डम्डम्
Chapter 63 / सर्गः ६३
Slōka 1 / श्लोक १
Slōka 1
एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।
माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥४-६३-१॥
Slōka 2 / श्लोक २
Slōka 2
कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।
अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥४-६३-२॥
Slōka 3 / श्लोक ३
Slōka 3
अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।
देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥४-६३-३॥
Slōka 4 / श्लोक ४
Slōka 4
महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।
माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४-६३-४॥
Slōka 5 / श्लोक ५
Slōka 5
उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।
बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥४-६३-५॥
Slōka 6 / श्लोक ६
Slōka 6
सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।
बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥४-६३-६॥
Slōka 7 / श्लोक ७
Slōka 7
पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।
तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥४-६३-७॥
Slōka 8 / श्लोक ८
Slōka 8
न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।
तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥४-६३-८॥
Slōka 9 / श्लोक ९
Slōka 9
उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।
स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥४-६३-९॥
Slōka 10 / श्लोक १०
Slōka 10
प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।
निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥४-६३-१०॥
Slōka 11 / श्लोक ११
Slōka 11
आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।
यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥४-६३-११॥
Slōka 12 / श्लोक १२
Slōka 12
तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।
सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥४-६३-१२॥
Slōka 13 / श्लोक १३
Slōka 13
पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।
इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥४-६३-१३॥
Slōka 14 / श्लोक १४
Slōka 14
उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।
तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥४-६३-१४॥
Slōka 15 / श्लोक १५
Slōka 15
अथ पवन समान विक्रमाःप्लवग वराः प्रतिलब्ध पौरुषाः ।
अभिजित् अभिमुखाम् दिशम् ययुःजनक सुता परिमार्गण उन्मुखाः ॥४-६३-१५॥