किष्किन्धाकाण्डम्डम्
Chapter 55 / सर्गः ५५
Slōka 1 / श्लोक १
Slōka 1
श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् ।
स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥४-५५-१॥
Slōka 2 / श्लोक २
Slōka 2
स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व -स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् ।
विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥४-५५-२॥
Slōka 3 / श्लोक ३
Slōka 3
भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् ।
धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥
Slōka 4 / श्लोक ४
Slōka 4
कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना ।
युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४-५५-४॥
Slōka 5 / श्लोक ५
Slōka 5
सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥४-५५-५॥
Slōka 6 / श्लोक ६
Slōka 6
लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा ।
आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥४-५५-६॥
Slōka 7 / श्लोक ७
Slōka 7
तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि ।
आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥४-५५-७॥
Slōka 8 / श्लोक ८
Slōka 8
राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा ।
कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥४-५५-८॥
Slōka 9 / श्लोक ९
Slōka 9
भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् ।
किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥४-५५-९॥
Slōka 10 / श्लोक १०
Slōka 10
उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् ।
शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥४-५५-१०॥
Slōka 11 / श्लोक ११
Slōka 11
बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् ।
अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥४-५५-११॥
Slōka 12 / श्लोक १२
Slōka 12
अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् ।
इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ॥४-५५-१२॥
Slōka 13 / श्लोक १३
Slōka 13
अभिवादन पूर्वम् तु राजा कुशलम् एव च ।
अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥४-५५-१३॥
Slōka 14 / श्लोक १४
Slōka 14
वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः ।
आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥४-५५-१४॥
Slōka 15 / श्लोक १५
Slōka 15
मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ ।
प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥
Slōka 16 / श्लोक १६
Slōka 16
विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् ।
एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥४-५५-१६॥
Slōka 17 / श्लोक १७
Slōka 17
विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः ।
तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥४-५५-१७॥
Slōka 18 / श्लोक १८
Slōka 18
नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः ।
सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥४-५५-१८॥
Slōka 19 / श्लोक १९
Slōka 19
परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् ।
तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥४-५५-१९॥
Slōka 20 / श्लोक २०
Slōka 20
उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् ।
दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥४-५५-२०॥
Slōka 21 / श्लोक २१
Slōka 21
मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह ।
रामस्य वन वासम् च क्षयम् दशरथस्य च ॥४-५५-२१॥
Slōka 22 / श्लोक २२
Slōka 22
जनस्थान वधम् चैव वधम् चैव जटायुषः ।
हरणम् चैव वैदेह्या वालिनः च वधम् तथा ।राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥४-५५-२२॥
Slōka 23 / श्लोक २३
Slōka 23
स संविशद्भिः बहुभिः महीधरोमहाअद्रि कूट प्रमितैः प्लवंगमैः ।
बभूव सन्नादित निर्दर अन्तरोभृशम् नदद्भिः जलदैः इव अंबरम् ॥४-५५-२३॥