उत्तरकाण्डम्डम्
Chapter 95 / सर्गः ९५
Slōka 1 / श्लोक १
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.१ ॥
Slōka 2 / श्लोक २
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.२ ॥
Slōka 3 / श्लोक ३
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।
। ७.९५.३ ।।परिषदो मध्ये रामो वचनमब्रवीत् ।यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.४ ॥
Slōka 4 / श्लोक ४
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.५ ॥
Slōka 5 / श्लोक ५
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।
करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.६ ॥
Slōka 6 / श्लोक ६
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।
दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.७ ॥
Slōka 7 / श्लोक ७
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। ७.९५.८ ॥
Slōka 8 / श्लोक ८
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। ७.९५.९ ॥
Slōka 9 / श्लोक ९
एवं भवतु भद्रं वो यथा वदति राघवः ।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। ७.९५.१० ॥
Slōka 10 / श्लोक १०
तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। ७.९५.११ ॥
Slōka 11 / श्लोक ११
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। ७.९५.१२ ॥
Slōka 12 / श्लोक १२
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।
पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। ७.९५.१३ ॥
Slōka 13 / श्लोक १३
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। ७.९५.१४ ॥
Slōka 14 / श्लोक १४
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। ७.९५.१५ ॥
Slōka 15 / श्लोक १५
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।
विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। ७.९५.१६ ॥
Slōka 16 / श्लोक १६
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।
विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। ७.९५.१७ ।।