किष्किन्धाकाण्डम्डम्
Chapter 46 / सर्गः ४६
Slōka 1 / श्लोक १
Slōka 1
गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् ।
कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः ॥४-४६-१॥
Slōka 2 / श्लोक २
Slōka 2
सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् ।
श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम ॥४-४६-२॥
Slōka 3 / श्लोक ३
Slōka 3
यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् ।
परिकालयते वाली मलयम् प्रति पर्वतम् ॥४-४६-३॥
Slōka 4 / श्लोक ४
Slōka 4
तदा विवेश महिषो मलयस्य गुहाम् प्रति ।
विवेश वाली तत्र अपि मलयम् तत् जिघांसया ॥४-४६-४॥
Slōka 5 / श्लोक ५
Slōka 5
ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् ।
न च निष्क्रमते वाली तदा संवत्सरे गते ॥४-४६-५॥
Slōka 6 / श्लोक ६
Slōka 6
ततः क्षतज वेगेन आपुपूरे तदा बिलम् ।
तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः ॥४-४६-६॥
Slōka 7 / श्लोक ७
Slōka 7
अथ अहम् गत बुद्धिः तु सुव्यक्तम् निहतो गुरुः ।
शिला पर्वत संकाशा बिल द्वारि मया कृता ॥४-४६-७॥
Slōka 8 / श्लोक ८
Slōka 8
अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति ।
ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते ॥४-४६-८॥
Slōka 9 / श्लोक ९
Slōka 9
राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह ।
मित्रैः च सहितः तत्र वसामि विगत ज्वरः ॥४-४६-९॥
Slōka 10 / श्लोक १०
Slōka 10
आजगाम ततो वाली हत्वा तम् दानवर्षभः ।
ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः ॥४-४६-१०॥
Slōka 11 / श्लोक ११
Slōka 11
स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः ।
परिकालयते क्रोधात् धावंतम् सचिवैः सह ॥४-४६-११॥
Slōka 12 / श्लोक १२
Slōka 12
ततो अहम् वालिना तेन सानुबन्धः प्रधावितः ।
नदीः च विविधाः पश्यन् वनानि नगराणि च ॥४-४६-१२॥
Slōka 13 / श्लोक १३
Slōka 13
आदर्श तल संकाशा ततो वै पृथिवी मया ।
अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता ॥४-४६-१३॥
Slōka 14 / श्लोक १४
Slōka 14
पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् ।
पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च ॥४-४६-१४॥
Slōka 15 / श्लोक १५
Slōka 15
उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् ।
क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् ॥४-४६-१५॥
Slōka 16 / श्लोक १६
Slōka 16
परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् ।
पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो ॥४-४६-१६॥
Slōka 17 / श्लोक १७
Slōka 17
दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् ।
विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् ॥४-४६-१७॥
Slōka 18 / श्लोक १८
Slōka 18
द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् ।
अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः ॥४-४६-१८॥
Slōka 19 / श्लोक १९
Slōka 19
स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् ।
प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः ॥४-४६-१९॥
Slōka 20 / श्लोक २०
Slōka 20
हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् ।
यदा न विन्दे शरणम् वालिना समभिद्रुतः ॥४-४६-२०॥
Slōka 21 / श्लोक २१
Slōka 21
ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् ।
इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः ॥४-४६-२१॥
Slōka 22 / श्लोक २२
Slōka 22
मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले ।
प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् ॥४-४६-२२॥
Slōka 23 / श्लोक २३
Slōka 23
तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति ।
ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज ॥४-४६-२३॥
Slōka 24 / श्लोक २४
Slōka 24
न विवेश तदा वाली मतंगस्य भयात् तदा ।
एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् ।पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः ॥४-४६-२४॥