Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 13 / सर्गः १३

Slōka 1 / श्लोक १

Slōka 1

ऋश्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मण अग्रजः ।
जगाम सह सुग्रीवो वालि विक्रम पालिताम् ॥४-१३-१॥

Slōka 2 / श्लोक २

Slōka 2

समुद्यम्य महत् चापम् रामः कांचन भूषितम् ।
शराम् च आदित्य संकाशान् गृहीत्वा रण साधकान् ॥४-१३-२॥

Slōka 3 / श्लोक ३

Slōka 3

अग्रतः तु ययौ तस्य राघवस्य महात्मनः ।
सुग्रीवः संहत ग्रीवो लक्ष्मणः च महाबलः ॥४-१३-३॥

Slōka 4 / श्लोक ४

Slōka 4

पृष्ठतो हनुमान् वीरो नलो नीलः च वीर्यवान् ।
तारः चैव महातेजा हरि यूथप यूथपाः ॥४-१३-४॥

Slōka 5 / श्लोक ५

Slōka 5

ते वीक्षमाणा वृक्षाम् च पुष्प भार अवलम्बिनः ।
प्रसन्न अंबुवहाः चैव सरितः सागरम् गमाः ॥४-१३-५॥

Slōka 6 / श्लोक ६

Slōka 6

कन्दराणि च शैलाम् च निर्दराणि गुहाः तथा ।
शिखराणि च मुख्यानि दरीः च प्रिय दर्शनाः ॥४-१३-६॥

Slōka 7 / श्लोक ७

Slōka 7

वैदूर्य विमलैः तोयैः पद्मैः च आकोश कुड्मलैः ।
शोभितान् सजलान् मार्गे तटाकान् च अवलोकयन् ॥४-१३-७॥

Slōka 8 / श्लोक ८

Slōka 8

कारण्डैस्सारसैर्हम्सैर्वञ्जुलैर्जलकुक्कुटैः ।
चक्रवाकैस्थाचान्यैश्शकुनैर्प्रतिनादितान्।यद्वा -कारण्डैः सारसैः हंसैः वंजुलैः जल कुक्कुटैः ।चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥

Slōka 9 / श्लोक ९

Slōka 9

मृदुशष्पाङ्कुराअहारान्निर्भयान्वनगोचरान् ।
चरतांसर्वतोपश्यन्स्थलीषु हरिणान्स्थितान्।यद्वा -मृदु शष्प अंकुर आहारान् निर्भयान् वन गोचरान् ।चरताम् सर्वतो अपश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥

Slōka 10 / श्लोक १०

Slōka 10

तटाक वैरिणः च अपि शुक्ल दन्त विभूषितान् ।
घोरान् एकचरान् वन्यान् द्विरदान् कूल घातिनः ॥४-१३-१०॥

Slōka 11 / श्लोक ११

Slōka 11

मत्तन् गिरि तट उद्घुष्टान् पर्वतान् इव जंगमान् ।
वानरान् द्विरद प्रख्यान् मही रेणु समुक्षितान् ॥४-१३-११॥

Slōka 12 / श्लोक १२

Slōka 12

वने वन चराम् च अन्यान् खेचराम् च विहंगमान् ।
पश्यन्तः त्वरिता जग्मुः सुग्रीव वश वर्तिनः ॥४-१३-१२॥

Slōka 13 / श्लोक १३

Slōka 13

तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनंदनः ।
द्रुम षण्ड वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥४-१३-१३॥

Slōka 14 / श्लोक १४

Slōka 14

एष मेघ इव आकाशे वृक्ष षण्डः प्रकाशते ।
मेघ संघात विपुलः पर्यन्त कदली वृतः ॥४-१३-१४॥

Slōka 15 / श्लोक १५

Slōka 15

किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम ।
कौतूहल अपनयनम् कर्तुम् इच्छामि अहम् त्वया ॥४-१३-१५॥

Slōka 16 / श्लोक १६

Slōka 16

तस्य तद् वचनम् श्रुत्वा राघवस्य महात्मनः ।
गच्छन्न् एव आचचक्षे अथ सुग्रीवः तत् महद् वनम् ॥४-१३-१६॥

Slōka 17 / श्लोक १७

Slōka 17

एतद् राघव विस्तीर्णम् आश्रमम् श्रम नाशनम् ।
उद्यान वन संपन्नम् स्वादु मूल फल उदकम् ॥४-१३-१७॥

Slōka 18 / श्लोक १८

Slōka 18

अत्र सप्तजना नाम मुनयः संशित व्रताः ।
सप्त एव आसन् अधः शीर्षा नियतम् जल शायिनः ॥४-१३-१८॥

Slōka 19 / श्लोक १९

Slōka 19

सप्त रात्रे कृत आहारा वायुना अचल वासिनः ।
दिवम् वर्ष शतैः याताः सप्तभिः सकलेवराः ॥४-१३-१९॥

Slōka 20 / श्लोक २०

Slōka 20

तेषाम् एतत् प्रभावेण द्रुम प्राकार संवृतम् ।
आश्रमम् सुदुराधर्षम् अपि स इन्द्रैः सुर असुरैः ॥४-१३-२०॥

Slōka 21 / श्लोक २१

Slōka 21

पक्षिणो वर्जयन्ति एतत् तथा अन्ये वनचारिणः ।
विशन्ति मोहाद् ये अपि अत्र न निवर्तन्ते ते पुनः ॥४-१३-२१॥

Slōka 22 / श्लोक २२

Slōka 22

विभूषण रवाअः च अत्र श्रूयंते सकलाक्षराः ।
तूर्य गीत स्वनाअः च अपि गन्धो दिव्यः च राघव ॥४-१३-२२॥

Slōka 23 / श्लोक २३

Slōka 23

त्रेताग्नयो अपि दीप्यन्ते धूमो हि एष प्रदृश्यते ।
वेष्टयन् इव वृक्ष अग्रान् कपोत अंग अरुणो घनः ॥४-१३-२३॥

Slōka 24 / श्लोक २४

Slōka 24

एते वृक्षाः प्रकाशन्ते धूम संसक्त मस्तकाः ।
मेघ जाल प्रतिच्छन्ना वैदूर्य गिरयो यथा ॥४-१३-२४॥

Slōka 25 / श्लोक २५

Slōka 25

कुरु प्रणामम् धर्मात्मन् तेषाम् उद्दिश्य राघवः ।
लक्ष्मणेन सह भ्रात्रा प्रयतः संयत अंजलिः ॥४-१३-२५॥

Slōka 26 / श्लोक २६

Slōka 26

प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावित आत्मनाम् ।
न तेषाम् अशुभम् किंचित् शरीरे राम दृश्यते ॥४-१३-२६॥

Slōka 27 / श्लोक २७

Slōka 27

ततो रामः सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।
समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत् ॥४-१३-२७॥

Slōka 28 / श्लोक २८

Slōka 28

अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।
सुग्रीवो वानराअः चैव जग्मुः संहृष्ट मानसाः ॥४-१३-२८॥

Slōka 29 / श्लोक २९

Slōka 29

ते गत्वा दूरम् अध्वानम् तस्मात् सप्त जन आश्रमात् ।
ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि पालिताम् ॥४-१३-२९॥

Slōka 30 / श्लोक ३०

Slōka 30

ततस्तु रामानुज राम वानराःप्रगृह्य शस्त्राणि उदित उग्र तेजसा ।
पुरीम् सुरेश आत्मज वीर्य पालिताम्वधाय शत्रोः पुनर् आगताः इह ॥४-१३-३०॥