किष्किन्धाकाण्डम्डम्
Chapter 45 / सर्गः ४५
Slōka 1 / श्लोक १
Slōka 1
सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥४-४५-१॥
Slōka 2 / श्लोक २
Slōka 2
एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः ।
तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥४-४५-२॥
Slōka 3 / श्लोक ३
Slōka 3
शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥४-४५-३॥
Slōka 4 / श्लोक ४
Slōka 4
प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः ।
उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥४-४५-४॥
Slōka 5 / श्लोक ५
Slōka 5
प्रतस्थे सहसा वीरो हरिः शतबलिः तदा ।
पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥४-४५-५॥
Slōka 6 / श्लोक ६
Slōka 6
तारा अंगदादि सहितः प्लवगः पवनात्मजः ।
अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥४-४५-६॥
Slōka 7 / श्लोक ७
Slōka 7
पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥४-४५-७॥
Slōka 8 / श्लोक ८
Slōka 8
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।
कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥४-४५-८॥
Slōka 9 / श्लोक ९
Slōka 9
एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।
स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥४-४५-९॥
Slōka 10 / श्लोक १०
Slōka 10
नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः ।
क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥४-४५-१०॥
Slōka 11 / श्लोक ११
Slōka 11
एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।
आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥४-४५-११॥
Slōka 12 / श्लोक १२
Slōka 12
अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे ।
ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥४-४५-१२॥
Slōka 13 / श्लोक १३
Slōka 13
वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति ।
एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥४-४५-१३॥
Slōka 14 / श्लोक १४
Slōka 14
विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् ।
धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥४-४५-१४॥
Slōka 15 / श्लोक १५
Slōka 15
अहम् योजन संख्यायाः प्लविता न अत्र संशयः ।
शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥४-४५-१५॥
Slōka 16 / श्लोक १६
Slōka 16
भू तले सागरे वा अपि शैलेषु च वनेषु च ।
पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥४-४५-१६॥
Slōka 17 / श्लोक १७
Slōka 17
इति एकैकः तदा तत्र वानरा बल दर्पिताः ।
ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥४-४५-१७॥