उत्तरकाण्डम्डम्
Chapter 62 / सर्गः ६२
Slōka 1 / श्लोक १
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ।। ७.६२.१ ॥
Slōka 2 / श्लोक २
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ।। ७.६२.२ ॥
Slōka 3 / श्लोक ३
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ।। ७.६२.३ ॥
Slōka 4 / श्लोक ४
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ७.६२.४ ॥
Slōka 5 / श्लोक ५
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। ७.६२.५ ॥
Slōka 6 / श्लोक ६
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। ७.६२.६ ॥
Slōka 7 / श्लोक ७
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। ७.६२.७ ॥
Slōka 8 / श्लोक ८
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। ७.६२.८ ॥
Slōka 9 / श्लोक ९
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। ७.६२.९ ॥
Slōka 10 / श्लोक १०
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। ७.६२.१० ॥
Slōka 11 / श्लोक ११
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ७.६२.११ ॥
Slōka 12 / श्लोक १२
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।। ७.६२.१२ ॥
Slōka 13 / श्लोक १३
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। ७.६२.१३ ॥
Slōka 14 / श्लोक १४
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुभूयेदृशं दुःखमेष राघवनन्दनः ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। ७.६२.१४ ॥
Slōka 15 / श्लोक १५
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। ७.६२.१५ ॥
Slōka 16 / श्लोक १६
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ।। ७.६२.१६ ॥
Slōka 17 / श्लोक १७
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।
। ७.६२.१७ ॥
Slōka 18 / श्लोक १८
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। ७.६२.१८ ॥
Slōka 19 / श्लोक १९
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। ७.६२.१९ ॥
Slōka 20 / श्लोक २०
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। ७.६२.२० ॥
Slōka 21 / श्लोक २१
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। ७.६२.२१ ।।