उत्तरकाण्डम्डम्
Chapter 89 / सर्गः ८९
Slōka 1 / श्लोक १
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।
आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.१ ॥
Slōka 2 / श्लोक २
अथ रामः कथामेतां भूय एव महायशाः ।
कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.२ ॥
Slōka 3 / श्लोक ३
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।
उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.३ ॥
Slōka 4 / श्लोक ४
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.४ ॥
Slōka 5 / श्लोक ५
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.५ ॥
Slōka 6 / श्लोक ६
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.६ ॥
Slōka 7 / श्लोक ७
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।
स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.७ ॥
Slōka 8 / श्लोक ८
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।
गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.८ ॥
Slōka 9 / श्लोक ९
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।
प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.९ ॥
Slōka 10 / श्लोक १०
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.१० ॥
Slōka 11 / श्लोक ११
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.११ ॥
Slōka 12 / श्लोक १२
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.१२ ॥
Slōka 13 / श्लोक १३
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.१३ ॥
Slōka 14 / श्लोक १४
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।
फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.१४ ॥
Slōka 15 / श्लोक १५
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।
प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.१५ ॥
Slōka 16 / श्लोक १६
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.१६ ॥
Slōka 17 / श्लोक १७
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.१७ ॥
Slōka 18 / श्लोक १८
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।
प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.१८ ॥
Slōka 19 / श्लोक १९
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.१९ ॥
Slōka 20 / श्लोक २०
न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।
संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.२० ॥
Slōka 21 / श्लोक २१
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.२१ ॥
Slōka 22 / श्लोक २२
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।
मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.२२ ॥
Slōka 23 / श्लोक २३
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।
जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.२३ ॥
Slōka 24 / श्लोक २४
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।
बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.२४ ॥
Slōka 25 / श्लोक २५
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.२५ ।।