Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 99 / सर्गः ९९

Slōka 1 / श्लोक १

निविष्टायां तु सेनायामुत्सुको भरतस्तदा।
जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१॥

Slōka 2 / श्लोक २

ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय।
इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२॥

Slōka 3 / श्लोक ३

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३॥

Slōka 4 / श्लोक ४

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।
भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४॥

Slōka 5 / श्लोक ५

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५॥

Slōka 6 / श्लोक ६

सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:।
कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६॥

Slōka 7 / श्लोक ७

ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्।
मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७॥

Slōka 8 / श्लोक ८

गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८॥

Slōka 9 / श्लोक ९

मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्।
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९॥

Slōka 10 / श्लोक १०

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।
अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१०॥

Slōka 11 / श्लोक ११

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११॥

Slōka 12 / श्लोक १२

यमेवाधातुमिच्छन्ति तापसा: सततं वने।
तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ॥ २.९९.१२॥

Slōka 13 / श्लोक १३

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३॥

Slōka 14 / श्लोक १४

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:।
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४॥

Slōka 15 / श्लोक १५

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:।
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५॥

Slōka 16 / श्लोक १६

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:।
सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६॥

Slōka 17 / श्लोक १७

इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्।
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७॥

Slōka 18 / श्लोक १८

एवं स विलपंस्तस्मिन् वने दशरथात्मज:।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८॥

Slōka 19 / श्लोक १९

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९॥

Slōka 20 / श्लोक २०

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:।
रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२०॥

Slōka 21 / श्लोक २१

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:।
शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१॥

Slōka 22 / श्लोक २२

महारजतवासोभ्यामसिभ्यां च विराजिताम्।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२॥

Slōka 23 / श्लोक २३

गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:।
अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३॥

Slōka 24 / श्लोक २४

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४॥

Slōka 25 / श्लोक २५

निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।
उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५॥

Slōka 26 / श्लोक २६

तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।
ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६॥

Slōka 27 / श्लोक २७

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।
पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७॥

Slōka 28 / श्लोक २८

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८॥

Slōka 29 / श्लोक २९

तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:।
अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९॥

Slōka 30 / श्लोक ३०

दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३०॥

Slōka 31 / श्लोक ३१

य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।
वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१॥

Slōka 32 / श्लोक ३२

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२॥

Slōka 33 / श्लोक ३३

अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३॥

Slōka 34 / श्लोक ३४

यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४॥

Slōka 35 / श्लोक ३५

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५॥

Slōka 36 / श्लोक ३६

मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६॥

Slōka 37 / श्लोक ३७

इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७॥

Slōka 38 / श्लोक ३८

दु:खाभितप्तो भरतो राजपुत्रो महाबल:।
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८॥

Slōka 39 / श्लोक ३९

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।
आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९॥

Slōka 40 / श्लोक ४०

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४०॥

Slōka 41 / श्लोक ४१

तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१॥

Slōka 42 / श्लोक ४२

तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।
वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥