Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 71 / सर्गः ७१

Slōka 1 / श्लोक १

पुरा राम महाबाहो महाबल पराक्रम ।
रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥

Slōka 2 / श्लोक २

यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः ।
सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥३-७१-२॥

Slōka 3 / श्लोक ३

ऋषीन् वन गतान् राम त्रासयामि ततः ततः ।
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥

Slōka 4 / श्लोक ४

संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः ।
तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥३-७१-४॥

Slōka 5 / श्लोक ५

एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् ।
स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥३-७१-५॥

Slōka 6 / श्लोक ६

अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः ।
यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥३-७१-६॥

Slōka 7 / श्लोक ७

तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् ।
श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥३-७१-७॥

Slōka 8 / श्लोक ८

इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे ।
अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥३-७१-८॥

Slōka 9 / श्लोक ९

दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् ।
दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥३-७१-९॥

Slōka 10 / श्लोक १०

इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् ।
तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥३-७१-१०॥

Slōka 11 / श्लोक ११

सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् ।
स मया याच्यमानः सन् न आनयत् यम सादनम् ॥३-७१-११॥

Slōka 12 / श्लोक १२

पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् ।
अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥३-७१-१२॥

Slōka 13 / श्लोक १३

वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् ।
स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥३-७१-१३॥

Slōka 14 / श्लोक १४

तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् ।
सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥३-७१-१४॥

Slōka 15 / श्लोक १५

सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः ।
स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥३-७१-१५॥

Slōka 16 / श्लोक १६

छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि ।
अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥३-७१-१६॥

Slōka 17 / श्लोक १७

यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये ।
अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥३-७१-१७॥

Slōka 18 / श्लोक १८

इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः ।
स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥३-७१-१८॥

Slōka 19 / श्लोक १९

शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा ।
अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥३-७१-१९॥

Slōka 20 / श्लोक २०

मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना ।
एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥

Slōka 21 / श्लोक २१

इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः ।
रावणेन हृता सीता मम भार्या यशस्विनी ॥३-७१-२१॥

Slōka 22 / श्लोक २२

निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् ।
नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥३-७१-२२॥

Slōka 23 / श्लोक २३

निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे ।
शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥३-७१-२३॥

Slōka 24 / श्लोक २४

कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् ।
काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥३-७१-२४॥

Slōka 25 / श्लोक २५

धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते ।
स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥

Slōka 26 / श्लोक २६

कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः ।
एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥३-७१-२६॥

Slōka 27 / श्लोक २७

प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् ।
दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥३-७१-२७॥

Slōka 28 / श्लोक २८

यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः ।
यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥३-७१-२८॥

Slōka 29 / श्लोक २९

अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो ।
राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥३-७१-२९॥

Slōka 30 / श्लोक ३०

विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव ।
स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥३-७१-३०॥

Slōka 31 / श्लोक ३१

किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः ।
तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥३-७१-३१॥

Slōka 32 / श्लोक ३२

दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन ।
वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥३-७१-३२॥

Slōka 33 / श्लोक ३३

तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव ।
कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥३-७१-३३॥

Slōka 34 / श्लोक ३४

न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव ।
सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥३-७१-३४॥