बालकाण्डम्
Chapter 52 / सर्गः ५२
Slōka 1 / श्लोक १
तम् दृष्ट्वा परम प्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयात् वीरो वसिष्ठम् जपताम् वरम् ॥१-५२-१॥
Slōka 2 / श्लोक २
स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना ।
आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह ॥१-५२-२॥
Slōka 3 / श्लोक ३
उपविष्टाय च तदा विश्वामित्राय धीमते ।
यथा न्यायम् मुनि वरः फल मूलम् उपाहरत् ॥१-५२-३॥
Slōka 4 / श्लोक ४
प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज सत्तमः ।
तपो अग्नि होत्र शिष्येषु कुशलम् पर्यपृच्छत ॥१-५२-४॥
Slōka 5 / श्लोक ५
विश्वामित्रो महातेजा वनस्पति गणे तथा ।
सर्वत्र कुशलम् च आह वसिष्ठो राज सत्तमम् ॥१-५२-५॥
Slōka 6 / श्लोक ६
सुख उपविष्टम् राजानम् विश्वामित्रम् महातपाः ।
पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥१-५२-६॥
Slōka 7 / श्लोक ७
कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रंजयन् ।
प्रजाः पालयसे राजन् राज वृत्तेन धार्मिक ॥१-५२-७॥
Slōka 8 / श्लोक ८
कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने ।
कच्चित् ते विजिताः सर्वे रिपवो रिपु सूदन ॥१-५२-८॥
Slōka 9 / श्लोक ९
कच्चित् बले च कोशे च मित्रेषु च परंतप ।
कुशलम् ते नर व्याघ्र पुत्र पौत्रे तथा अनघ ॥१-५२-९॥
Slōka 10 / श्लोक १०
सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठम् विनय अन्वितम् ॥१-५२-१०॥
Slōka 11 / श्लोक ११
कृत्वा तौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः तदा ।
मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम् ॥१-५२-११॥
Slōka 12 / श्लोक १२
ततो वसिष्ठो भगवान् कथा अन्ते रघुनंदन ।
विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव ॥१-५२-१२॥
Slōka 13 / श्लोक १३
आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महाबल ।
तव च एव अप्रमेयस्य यथा अर्हम् संप्रतीच्छ मे ॥१-५२-१३॥
Slōka 14 / श्लोक १४
सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया कृताम् ।
राजन् त्वम् अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१-५२-१४॥
Slōka 15 / श्लोक १५
एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
कृतम् इति अब्रवीत् राजा पूजा वाक्येन मे त्वया ॥१-५२-१५॥
Slōka 16 / श्लोक १६
फल मूलेन भगवन् विद्यते यत् तव आश्रमे ।
पाद्येन आचमनीयेन भगवद् दर्शनेन च ॥१-५२-१६॥
Slōka 17 / श्लोक १७
सर्वथा च महाप्राज्ञ पूजा अर्हेण सुपूजितः ।
नमस्ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा ॥१-५२-१७॥
Slōka 18 / श्लोक १८
एवम् ब्रुवन्तम् राजानम् वसिष्ठः पुनः एव हि ।
न्यमंत्रयत धर्मात्मा पुनः पुनः उदार धीः ॥१-५२-१८॥
Slōka 19 / श्लोक १९
बाढम् इति एव गाधेयो वसिष्ठम् प्रत्युवाच ह ।
यथा प्रियम् भगवतः तथा अस्तु मुनि सत्तम ॥१-५२-१९॥
Slōka 20 / श्लोक २०
एवम् उक्तः तथा तेन वसिष्ठो जपताम् वरः ।
आजुहाव ततः प्रीतः कल्माषीम् धूत कल्मषः ॥१-५२-२०॥
Slōka 21 / श्लोक २१
एहि एहि शबले क्षिप्रम् शृणु च अपि वचो मम ।
सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो अस्मि अहम् ।भोजनेन महा अर्हेण सत्कारम् संविधत्स्व मे ॥१-५२-२१॥
Slōka 22 / श्लोक २२
यस्य यस्य यथा कामम् षड् रसेषु अभिपूजितम् ।
तत् सर्वम् काम धुक् दिव्ये अभिवर्ष कृते मम ॥१-५२-२२॥
Slōka 23 / श्लोक २३
रसेन अन्नेन पानेन लेह्य चोष्येण संयुतम् ।
अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर ॥१-५२-२३॥