उत्तरकाण्डम्डम्
Chapter 109 / सर्गः १०९
Slōka 1 / श्लोक १
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। ७.१०९.१ ॥
Slōka 2 / श्लोक २
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ।। ७.१०९.२ ॥
Slōka 3 / श्लोक ३
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। ७.१०९.३ ॥
Slōka 4 / श्लोक ४
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। ७.१०९.४ ॥
Slōka 5 / श्लोक ५
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। ७.१०९.५ ॥
Slōka 6 / श्लोक ६
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। ७.१०९.६ ॥
Slōka 7 / श्लोक ७
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।
तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। ७.१०९.७ ॥
Slōka 8 / श्लोक ८
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।
ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। ७.१०९.८ ॥
Slōka 9 / श्लोक ९
ऋषयश्च महात्मानः सर्व एव महीसुराः ।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। ७.१०९.९ ॥
Slōka 10 / श्लोक १०
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। ७.१०९.१० ॥
Slōka 11 / श्लोक ११
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। ७.१०९.११ ॥
Slōka 12 / श्लोक १२
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ७.१०९.१२ ॥
Slōka 13 / श्लोक १३
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। ७.१०९.१३ ॥
Slōka 14 / श्लोक १४
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। ७.१०९.१४ ॥
Slōka 15 / श्लोक १५
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। ७.१०९.१५ ॥
Slōka 16 / श्लोक १६
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। ७.१०९.१६ ॥
Slōka 17 / श्लोक १७
न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।
हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। ७.१०९.१७ ॥
Slōka 18 / श्लोक १८
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।
यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। ७.१०९.१८ ॥
Slōka 19 / श्लोक १९
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। ७.१०९.१९ ॥
Slōka 20 / श्लोक २०
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। ७.१०९.२० ॥
Slōka 21 / श्लोक २१
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। ७.१०९.२१ ॥
Slōka 22 / श्लोक २२
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। ७.१०९.२२ ॥