उत्तरकाण्डम्डम्
Chapter 53 / सर्गः ५३
Slōka 1 / श्लोक १
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।
सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ।। ७.५३.१ ॥
Slōka 2 / श्लोक २
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।
यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ।। ७.५३.२ ॥
Slōka 3 / श्लोक ३
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।
तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ।। ७.५३.३ ॥
Slōka 4 / श्लोक ४
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।
अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ।। ७.५३.४ ॥
Slōka 5 / श्लोक ५
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।
कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ।। ७.५३.५ ॥
Slōka 6 / श्लोक ६
पौरकार्याणि यो राजा न करोति दिने दिने ।
संवृते नरके घोरे पतितो नात्र संशयः ।। ७.५३.६ ॥
Slōka 7 / श्लोक ७
श्रूयते हि पुरा राजा नृगो नाम महायशाः ।
बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ।। ७.५३.७ ॥
Slōka 8 / श्लोक ८
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।
नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ।। ७.५३.८ ॥
Slōka 9 / श्लोक ९
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ।
ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ।। ७.५३.९ ॥
Slōka 10 / श्लोक १०
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।
नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ।। ७.५३.१० ॥
Slōka 11 / श्लोक ११
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।
ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ।। ७.५३.११ ॥
Slōka 12 / श्लोक १२
अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।
आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। ७.५३.१२ ॥
Slōka 13 / श्लोक १३
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।
अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ।। ७.५३.१३ ॥
Slōka 14 / श्लोक १४
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् ।
गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। ७.५३.१४ ॥
Slōka 15 / श्लोक १५
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।
तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। ७.५३.१५ ॥
Slōka 16 / श्लोक १६
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः ।
तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। ७.५३.१६ ॥
Slōka 17 / श्लोक १७
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ।। ७.५३.१७ ॥
Slōka 18 / श्लोक १८
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।
अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। ७.५३.१८ ॥
Slōka 19 / श्लोक १९
बहुवर्षसहस्राणि बहुवर्षशतानि च ।
श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। ७.५३.१९ ॥
Slōka 20 / श्लोक २०
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः ।
वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। ७.५३.२० ॥
Slōka 21 / श्लोक २१
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।
कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। ७.५३.२१ ॥
Slōka 22 / श्लोक २२
भारावतरणार्थं हि नरनारायणावुभौ ।
उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। ७.५३.२२ ॥
Slōka 23 / श्लोक २३
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।
तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। ७.५३.२३ ॥
Slōka 24 / श्लोक २४
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।
। ७.५३.२४ ॥
Slōka 25 / श्लोक २५
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।
तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। ७.५३.२५ ॥
Slōka 26 / श्लोक २६
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।
तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। ७.५३.२६ ।।