सुन्दरकाण्डम्
Chapter 50 / सर्गः ५०
Slōka 1 / श्लोक १
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ।। ५.५०.१।।।।
Slōka 2 / श्लोक २
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।
किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। ५.५०.२।।।।
Slōka 3 / श्लोक ३
येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।
सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। ५.५०.३।।।।
Slōka 4 / श्लोक ४
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। ५.५०.४।।।।
Slōka 5 / श्लोक ५
दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।
वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। ५.५०.५।।।।
Slōka 6 / श्लोक ६
मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।
आयोधने वा किं कार्यं त्वया कपे ।। ५.५०.६।।।।
Slōka 7 / श्लोक ७
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। ५.५०.७।।।।
Slōka 8 / श्लोक ८
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।
तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। ५.५०.८।।।।
Slōka 9 / श्लोक ९
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। ५.५०.९।।।।
Slōka 10 / श्लोक १०
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।
। ५.५०.१०।।।।
Slōka 11 / श्लोक ११
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। ५.५०.११।।।।
Slōka 12 / श्लोक १२
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।
। ५.५०.१२।।।।
Slōka 13 / श्लोक १३
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। ५.५०.१३।।।।
Slōka 14 / श्लोक १४
जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। ५.५०.१४।।।।
Slōka 15 / श्लोक १५
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। ५.५०.१५।।।।
Slōka 16 / श्लोक १६
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।
अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। ५.५०.१६।।।।
Slōka 17 / श्लोक १७
पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। ५.५०.१७।।।।
Slōka 18 / श्लोक १८
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।
केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। ५.५०.१८।।।।
Slōka 19 / श्लोक १९
दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।। ५.५०.१९।।